भेदस्य धर्मिस्वरूपत्वसमर्थनम्
कल्प्यमानमपि बाधकं किं भेदमेव गोचरयेदुताभेदम् । यद्वा यत्किञ्चित् । निरालम्बनस्यानुदयात् । नाद्यः । साधकत्वात् । द्वितीयेऽपि तदन्यस्तद्विरोधी तदभावो वा नञर्थो वाच्यः । पक्षत्रयेsपि दुष्परिहरो भेदः । भेदाभावग्राहिणाऽपि प्रतियोगिविलक्षणतया स्वविषयो व्यवस्थाप्यः । नापि तृतीयः । अविरोधादेव बाधकत्वायोगात् ।
ननु शुक्तिरूप्यप्रत्यक्षवद्वैतप्रत्यक्षेऽपि प्रत्यक्षत्वात्किञ्चिद्बाधकं कल्प्यते । एवञ्च तेनैव सदोषत्वाध्यवसायः स्यादित्यत आह ।। कल्प्यमान मपीति ।। निरालम्बनस्येति । त्रितयातिरिक्तस्य विषयस्याभावात् । बोध- मात्रस्य सविषयत्वस्वाभाव्यस्य समर्थितत्वादिति भावः । साधकत्वादिति । बाधकस्य प्रमारूपत्वेन तद्बोधितस्य द्वैतस्य रूप्याभावस्येव सत्यत्वादिति भावः । द्वैतधीबाधकमभेदं गोचरयतीति पक्षेsपि न भेदोऽभेद इत्यत्र यो नकारस्तस्य तदन्यतद्विरोधितदभावरूपार्थत्रयमध्ये को वाऽर्थस्तवाभिमत इति पृच्छति ॥ द्वितीयेऽपीति । तदन्य इति । भेदान्यो भेदविरोधी भेदाभावो वा बाधकबोध्य इत्यर्थः । पक्षत्रयेऽपीष्टसिद्धिं प्रतिजानीते || पक्षत्रयेऽपीति । तत्र यदाऽन्यत्वं नञर्थस्तदाऽयं भेदो नेति वाऽयं भेदादन्य इति वा बाधबुद्धिर्भवेत् । तथा च भेदप्रतियोगिकस्येदंशब्दार्थनिष्ठस्य भेदस्य साक्षादेव बाधरूपप्रमाबोधितत्वाद्भेदस्य प्रामाणिकत्वसिद्धि: । | यदा विरोधित्वं नञर्थस्तदाऽप्ययं भेदविरोधीत्येवंरूपस्य गजाद्भिन्नत्व- ज्ञानाभावे सिंहस्य गजविरोधित्वज्ञानस्येव भेदाद्भिन्नत्वज्ञानाभावे भेदविरो- धित्वज्ञानस्याभावेन भेदविरोधित्वग्राहिणा बाधेन भेदस्य बोधितत्वेन तत्सिद्धत्वं स्पष्टमित्युपेक्ष्य यदाऽभावो नञर्थस्तदा भेदाभावग्राहिणा कथं भेदसिद्धिः । अन्यथा शुक्तिरूप्याभावग्राहिणाऽपि बाधेन शुक्तिरूप्यसिद्ध्या- पातादित्याशङ्क्य तस्मिन्पक्षे भेदसिद्धिमुपपादयति ।। भेदेति । प्रतियोगि- विलक्षणतया भेदविलक्षणतया । स्वविषयो भेदाभाव इत्यर्थः । अभाव- ग्राहिणा प्रतियोगिभूतभेदासिद्धावपि भेदस्य तदभावस्य च यो भेदस्तज्ज्ञा- नाभावेऽयं भेदाभाव इति भेदतदभावयोः प्रतियोग्यनुयोगिभावज्ञानमेव न स्यात् । तथा च पक्षत्रयेऽपि भेदमगृहीत्वा स्वविषयं न व्यवस्थापयितुमीष्ट इति कथमुपजीव्यं भेदं बाधो बाधेतेति भाव: । बाधकं यत्किञ्चिद्गोचरयेदिति पक्षं निराचष्टे ॥ नापीति । औदासीन्येन प्रवृत्तस्येदमिति ज्ञानवद- विरोधादेवाबाधकत्वादिति भावः । एतेन बाधकं भेदभ्रमाधिष्ठानतत्त्व- गोचरमिति निरस्तम् । तस्यापि भेदाद्भेदाभावे भेदविलक्षणत्वेनाग्रहे च तज्झानस्य भेदबाधकत्वायोगात् ।