Join Tattvasudhā to study.

भेदस्य धर्मिस्वरूपत्वसमर्थनम्

§30Mūla

तृतीयेऽपि किं तर्केणैव सदोषत्वाध्यवसायोऽथ स्फुटतरबाधकवशात् । नाद्यः । वेदान्तवाक्यवृत्तेरप्यविश्वसनीयतापातात् । दोषश्चात्राविद्यैव परस्येष्टा । सा च यदि वेदान्तानामपि मूलं तर्हि प्रत्यक्षे प्रद्वेषः किन्निबन्धनः । न द्वितीयः । निरवकाशस्य तस्यानुपलम्भात् ।

उत्पद्यत इति सम्भवतीत्येतद्देहलीदीपन्यायेन पूर्वत्रोत्तरत्र च सम्बध्यते । गुणजन्यतानिरासद्वारा दोषजन्यतैवापद्यत इति पक्षमपि दूषयितुं विकल्पेन पृच्छति ।। तृतीयेऽपीति ॥ तर्केणैवेति । प्रागुक्तशुष्कतर्केणेत्यर्थः || सदोषत्वेति । भेदप्रतीतेर्दोषजन्यत्वनिश्चय इत्यर्थः । एकमेवाद्वितीयं न तु द्वितीयमस्तीत्यादीनामापाततो भेदबाधकत्वेन प्रतीयमानत्वेऽपि द्वैतबाधकत्वमित्यभिप्रेत्याह ॥ स्फुटतरेति । प्रत्यक्षादिरूपेत्यर्थः || वेदान्तेति । यदि शुष्कतर्कैरेव द्वैतप्रत्यक्षस्य दोषजन्यत्वाध्यवसायेना- विश्वसनीयता तर्हि वेदान्तवाक्यैर्जायमानाया अद्वैतगोचरान्त: करणवृत्तेरपि तथाविधशुष्कतर्कैरविश्वसनीयतापातात् । द्वैतवदद्वैतेऽपि वेदान्तवृत्तिरपि किमैक्यमेव गोचरयेदुत वस्त्वपि । नाद्य: । धर्मिप्रतियोगिबुद्धि- मन्तरेणैक्यबुद्धेरयोगात् । द्वितीयेऽपि किमैक्यपूर्वं वस्तु वस्तुपूर्वमैक्यं वा युगपदुभयं वा गोचरयेदित्यादिविकल्पानां दोषाणां च साम्यादिति भावः । ननु न ब्रह्मातिरिक्तमैक्यमस्ति यद्विकल्प्य दृष्येतेति चेन्न । एवं सति भेदोऽपि घटाद्यतिरिक्तो नेत्यपि वक्ष्यमाणत्वेन साम्यात् । ननु श्रुतिविरोधा- दैक्यदूषकास्तर्का आभासा इति चेत्प्रत्यक्षादिविरोधाद्भेददूषका अपि तथेति समम् । प्रत्यक्षं तर्कविरोधादप्रमाणं चेच्छूतिरपि तद्विरोधादुपचरितार्थेति समम् । त्वन्मतेऽपि स्वस्य स्वाभिन्नत्वादभेदनिरासः स्वव्याहत इति चेत् । त्वन्मते ब्रह्मणोऽनृताद्भिन्नत्वाद्भेदनिरासोऽपि स्वव्याहत इति समम् । ब्रह्मणोऽनृतादपि भेदो मिथ्येति चेत् । स्वस्य स्वाभेदोऽपि मिथ्येति सुवचत्वा । न च विरोधः । ब्रह्मणोऽनृताद्भिन्नत्वं मिथ्येत्युक्त्यपेक्षया स्वस्य स्वाभेदो मिथ्येत्युक्तेरतीव विरोधाभावात् । उक्तं च न्यायामृते । न हि सत्यमसत्येभ्यो भिन्नं नेत्युक्तितोऽपि च । सत्यं न सत्यमित्युक्तावधिकाऽस्ति विरुद्धता || इति । शुष्कतर्कैर्भेदबाधे स्यादभेदोऽपि बाधितः । प्रमितत्त्वात्तत्र तर्कास्तुच्छाश्च- त्प्रकृतेन किम् ॥ इति । अपि च तर्कैरपि द्वैतप्रत्यक्षे निश्चीयमानं सदोषत्वमाविद्यकत्वमेव त्वया वाच्यम् । न त्वन्यत् । प्रत्यक्षे क्लृप्तदूरस्थत्वा - दिदोषाणामभावस्यैव निश्चितत्वात् । तथा च तदाविद्यकत्वरूपसदोषत्वं यदि वेदान्तवृत्तौ न स्यात्तदा तस्याः सत्यतापत्त्या सदद्वैतमतक्षतिरतोऽद्वैत- वृत्तेराविद्यकत्वमेव वाच्यमिति द्वैताद्वैतवृत्त्योराविद्यकत्वरूपसदोषत्वे समानेऽप्येकत्र प्रद्वेषोऽयुक्त इत्याह । दोषश्चेति । किञ्चेति चार्थः । अत्र द्वैतपक्षे ।। परस्येष्टेति । अन्यस्याभावादिति भावः ।। मूलमिति । वेदान्तज- नितवृत्तेः कारणमित्यर्थः । तस्येति । बाधस्येत्यर्थः । न हि घटपटादि - भेदनिषेधकं प्रत्यक्षमागमं वा पश्यामः । शुष्कतर्कस्त्वप्रतिष्ठित इत्युक्तत्वात् एकमेवाद्वितीयमित्यादेः सावकाशत्वात् । अन्यथाव्याख्यातत्वाच्चेति भावः ।

Loading…