Join Tattvasudhā to study.

भेदस्य धर्मिस्वरूपत्वसमर्थनम्

§30Mūla

अत्र प्रष्टव्यम् । किं भेदस्य प्रतीतिरेव निराक्रियते उत तस्याः कारणजन्यता निर्दोषकारणजन्यता वा । नाद्यः । भेदस्य प्रतीति- मनुपजीव्य निराकर्तुमशक्यत्वात् । न द्वितीयः । तत्किमजन्यतया स्यादकारणजन्यतयाऽतत्कारणजन्यतया वा । नाद्यः । अनभ्युपगमात् । भेदप्रतीतेर्नित्यतापत्तेः स्वप्रातिकूल्याचरणप्रसङ्गाच्च । न द्वितीयः । व्याघा- तात्। तन्निवृत्तेरप्यकारणत्वापत्त्या प्रयत्नायोगाच्च । नापि तृतीयः । तदुत्पाद- कस्यैव तत्कारणतया व्यवहारात् । न ह्यनुत्पादकादुत्पद्यत इति सम्भवति । नाप्यन्योत्पादकात् ।

पूर्वपक्ष्यभिसन्ध्युद्घाटनेन तदभिमतं दूषयितुं तदाशयं पृच्छति ।। अत्रेति । पूर्वपक्षिणोपन्यस्ते प्रमेये वक्ष्यमाणप्रकारेण विविच्य पूर्वपक्ष्यभिमतं प्रष्टव्यमित्यर्थः । निराक्रियत इत्येतदुत्तरकल्पद्वयेऽपि योज्यम् । तथा च गुणजन्यत्वं निराक्रियत इत्यस्य दोषजन्यत्वमुच्यते किमित्यर्थः ।। भेदस्येति । यदि भेद एव न प्रतीयेत तर्हि भेदमेव गोचरयेदुत वस्त्वपीत्यादि विकल्प्य बहुयत्नैर्भेदनिरास स्त्वदीयोsयुक्तः स्यात् । न हि भेदज्ञानाभावे विकल्पः सम्भवति । पर्यायेण विकल्पायोगात् । बुद्ध्यनारूढस्य निराकरणायोगाच्च । तथा च विकल्प्य भेदं निराकुर्वतो भेदधीनिराकरणं स्वव्याहतमित्यर्थः । निराकर्तुं भेदस्येत्यनुषङ्गः । यद्वा भेदस्य प्रतीत्यभावे निराकर्तुं भेदभ्रमरूपप्रतीतिं निराकर्तुमिति योजना । तथा चायमर्थः । भेदप्रतीत्यभावे भेदभ्रमनिरासाय वेदान्तश्रवणाद्ययोगादिति । अथवा स्वपरपक्षदूषण- भूषणादिभेदस्याप्रतीतौ परपक्षस्य निराकर्तुमशक्यत्वादित्यर्थः । कारणजन्यता निराक्रियत इति पक्षं क्षिपति ।। न द्वितीय इति ॥ तत्किमिति । कारण- जन्यत्वमित्यर्थः ।। अकारणेति । कारणजन्यं नेत्यकारणजन्यम् ॥ अतत्कारणेति । भेदप्रतीतिं प्रति यत्कारणं न भवति तज्जन्यतयेत्यर्थः ॥ अनभ्युपगमादिति । भेदबुद्धेर्भ्रमतयाऽविद्यारूपदोषजन्यतायाः परेणाभ्युप- गमादिति भावः । यदि कश्चिद्वैयात्यादभ्युपगच्छेत्तदा बाधकमाह || भेदेति ।। स्वप्रातिकूल्येति । भेदप्रतीतेरजन्यत्वे तस्या दोषाजन्यतया प्रमात्वापत्त्या प्रमाविषयस्य च सत्त्वनियमेन भेदमिथ्यात्वाय प्रयतमानस्य तव तत्प्रतीते- रजन्यत्वाङ्गीकरणं विरुद्धमित्यर्थः ॥ व्याघातादिति । भेदप्रतीतेस्त्वया दोषरूपकारणजन्यत्वाङ्गीकारात्कारणं विनाऽपि भेदप्रतीतिर्जन्यतामित्युक्तेः स्ववचनविरुद्धत्वादित्यर्थः I किञ्च यदि भेदप्रतीतेर्जन्यत्वमङ्गीकृत्य कारणजन्यत्वं नाङ्गीकुरुषे तदा भेदभ्रान्त्युच्छेदार्थं तत्कारणीभूते वेदान्तश्र - वणादौ तव प्रयत्न न स्यात् । दृश्यते च तव प्रवृत्तिः । तथा च कार्योद्देशेन कारणे प्रवर्तमानस्य तव कारणं विनाऽपि कार्यं जायेतेत्युक्तौ स्वक्रिया- विरोधश्च स्यादित्याह । तन्निवृत्तेरिति । भेदभ्रान्तिनिवृत्तेरित्यर्थः । अकारणत्वापत्त्याऽकारणकत्वापत्त्येत्यर्थः ।। प्रयत्नेति । वेदान्तश्रवणादाविति शेषः । उत्पत्तौ कारणानपेक्षस्य निवृत्तावपि कारणानपेक्षत्वनियमेन भेदभ्रम- निवृत्त्यर्थं वेदान्तश्रवणप्रयत्नो न स्यादिति भावः । अतत्कारणजन्यतयेति पक्षं निरस्यति ।। नापीति । व्याघातादित्यनुवर्तते । अतत्कारणेत्यस्य स्वाकारणात्स्वयमुत्पद्यत इत्यर्थ उतान्यकारणादिति विकल्पद्वयं हृदि निधाय पक्षद्वयेऽप्यन्वयव्यतिरेकाभ्यां व्याहतिमेवोपपादयति । तदिति ।

Loading…