भेदस्य प्रत्यक्षाद्यग्राह्यत्वपूर्वपक्ष:
विप्रतिपन्नानि शरीराणि स्वसङ्ख्यासङ्ख्येयात्मवन्ति शरीरत्वादित्यस्यातीतानागतशरीरेषु व्यभिचारः । वर्तमानशरीरत्वहेतोर्योगि- शरीरे व्यभिचारः । व्यवस्थानुपपत्तेश्च दुर्निरूपत्वेन भेदासाधकत्वम् । तथा हि । किं व्यवस्थापदेन धर्मिभिन्न धर्मभेदो विवक्षितो भिन्नाधिकरणधर्मभेदो वा विरुद्धत्वं वा । नाद्यः । धर्मिभेदाभावेऽपि धर्मभेदोपपत्तेः । न द्वितीयः । परस्पराश्रयत्वात् । न तृतीयः । नाजात एकोऽन्यं हन्ति नाप्यन्यमन्याधार इति न्यायेन सहावस्थानापेक्षणात् । तस्मान्न जडात्मनां भेदसिद्धिरिति ॥ छ ॥ भेदस्य प्रत्यक्षाद्यग्राह्यत्वपूर्वपक्ष: ॥ छ ॥
जीवानामन्योन्यं भेदसाधकमनुमानमाशङ्क्य निराकरोति ॥ विप्रतिपन्नानीति । स्वेषां या सङ्ख्या तया सङ्ख्येया ये आत्मानस्तद्वन्ति । आत्मवन्तीत्वेवोक्तावेकात्मवादिनां सिद्धसाधनता स्यादतो विशेषणम् । अनेन च यावन्ति शरीराणि तावन्त आत्मनः सिध्यन्तीति । घटादिपदार्था व्यतिरेकदृष्टान्ता इति भावः । अत्र शरीरत्वमात्रं वा हेतुर्वर्तमानशरीरत्वं वा । आद्य आह ।। अतीतेति । एकस्यैव चैत्रस्यातीतानागतानेकशरीरवत्त्वेन चैत्रादृष्टोपार्जितेष्वतीतानागतशरीरेषु व्यभिचार इत्यर्थः । द्वितीयं निराह । वर्तमानेति । योगिशरीर इति जातावेकवचनम् । सौभर्यादीनां योगसामर्थ्या- र्जितेष्वेकदाऽनुभूयमानेष्वनेकशरीरेषु स्वसङ्ख्येयात्मवत्त्वाभावादिति भावः । ननु लोके कश्चित्सुखी दृश्यतेऽन्यस्तु दु:खी । तयोरैक्ये च तन्नोपपद्यते । न ह्येक एवैकदा दुःखी सुखी चेति युक्तम् । एवञ्च सुखदुःखादिधर्माणां व्यवस्थान्यथाऽनुपपत्त्यैव भेदः सिध्येत् । उक्तं चोदयनेन । नानात्मनो व्यवस्थात इतीत्याशङ्क्य हेतुं वदन्नेव तस्या भेदासाधकत्वमाह ।। व्यवस्थेति। सुखदुःखादिधर्माणामिति आदौ योज्यम् । किञ्चेति चार्थः । व्यवस्थाया अनुपपत्तेरयुक्ततायां भेदासाधकत्वं भेदसाधकत्वं नास्ति । कुतः । व्यवस्थाया दुर्निरूपत्वादिति योजना | हेतुं विवरितुं प्रतिजानीते ॥ तथा हीति । धर्माणां व्यवस्थेत्यत्र विशब्दो वैलक्षण्यार्थको विरुद्धार्थकश्च । तथा चाद्ये वैलक्षण्यं नाम भेद: । तत्र धर्माणां भेदं विवक्षित्वा विलक्षणतया भिन्नतया धर्माणामवस्थाऽवस्थानम् । तेन तद्धर्मिभेदसिद्धिरित्यर्थ उच्यते उत विलक्षणेषु भिन्नेषु धर्मिषु या धर्माणामवस्थितिस्तया तद्धर्मिभेदसिद्धिरथवा विरुद्धतया धर्माणामवस्थिति: । तया तद्धर्मभेदसिद्धिरिति त्रीन्विकल्पा- न्क्रमेणाशङ्क्य दूषणान्याह ॥ किमिति ।। धर्मिभेदाभावेऽपीति । एकस्मिन्नेव घटे रूपरसादीनां भिन्नानां धर्माणां सत्त्वेऽपि धर्मिणो घटस्य भेदाभावेन व्यभिचारेण न धर्मिभेदसाधकत्वमित्यर्थः ।। परस्परेति । धर्मिभेदे सिद्धे धर्माणां भिन्नधर्म्याश्रितत्वसिद्धिर्धर्माणां भिन्नधर्म्याश्रितत्वे सिद्धे तेन धर्मिभेदसिद्धिरिति परस्पराश्रयत्वादित्यर्थः 1 तृतीयेऽपि विरोध: सहानवस्थितत्वमुत वध्यघातुकभाव: । आद्ये त्वैकात्म्यवादिनामसिद्धमिति द्वितीय एव वाच्यः । तत्र च वध्यघातुकभावापन्नानां धर्माणां वध्यघातु- कभावनिर्वाहाय तेषामेकाधिकरणस्थत्वस्यैव वक्तव्यत्वेन धर्मिभेदासाधक- त्वादित्याह । न तृतीय इति । अजातोऽनुत्पन्नः || अन्याधार इति । यदधिकरणे वध्यमस्ति ततो भिन्नाधिकरणवर्तीत्यर्थः । उपपादितं पूर्वपक्ष- प्रमेयमुपसंहरति ।। तस्मादिति । उक्तदूषणगणादित्यर्थः ।। जडात्मनामिति । जडानां परमात्मना यो भेदो, जडानां जीवात्मनां च यो भेदो, जडानामन्योन्यं जीवानामन्योन्यं परमात्मना च यो भेदस्तेषां पञ्चानां भेदानां ग्रहो न सम्भवतीत्यर्थः । इतिशब्दः पूर्वपक्षसमाप्तौ ।। छ ।।