Join Tattvasudhā to study.

भेदस्य प्रत्यक्षाद्यग्राह्यत्वपूर्वपक्ष:

§29Mūla

न द्वितीयः । विरोधादेव । सर्वत्राप्यतिप्रसङ्गाच्च । धर्मिणं परिरभ्यैव भेदो जायतेऽतो नोक्तदोष इति चेन्मैवम् । धर्मिणा सहैव धर्मोत्पत्तेरनभ्युपगमात् । अभ्युपगमे चोत्पन्नं द्रव्यं क्षणमगुणं तिष्ठतीति कल्पनावैय्यर्थ्यात् । गुणानां द्रव्यजन्यत्वे धर्माणामपि तथात्वात् । ( अतो न) तस्मान्न भेदे प्रत्यक्षं प्रमाणम् । यदा तु भेदे न प्रत्यक्षं प्रमाणं तदा का वार्ता तत्पादोपजीविनो वराकस्यानुमानस्याप्रमाणतायाम् । आत्मभेदस्तु न प्रमाणगन्धमनुभवति । न तावत्तत्र प्रत्यक्षं प्रमाणम् । परमात्म- नोऽप्रत्यक्षत्वात् । प्रत्यक्षाप्रत्यक्षभेदस्य वायुवनस्पतिसंयोगवदप्रत्यक्षत्वात् । आत्माऽऽत्म प्रतियोगिकभेदवानात्मत्वादित्यद्यानुमानस्य दृष्टान्तालाभ- दुष्टत्वात् ।

एवं भिन्ने भेदस्थितिपक्षं निरस्याभिन्ने भेदस्थितिरिति पक्षं निरस्यति ।। न द्वितीय इति ।। विरोधादिति । स्वभेदहीने स्वस्मिन्स्व- भेदोऽस्तीत्यस्य विरुद्धत्वादित्यर्थः ।। अतिप्रसङ्गादिति । सर्वेऽपि भेदा: स्वप्रतियोगिन्येव स्युरित्यर्थः । अयमत्र तर्कावतार: । यदि भेदः प्रतियोगिनो भिन्ने धर्मिणि स्यात्तदा भेदपरम्परयाऽनवस्था स्यात् । न च सेष्टा । अतो न भिन्न इति । यद्यभिन्ने भेदश्वोपेयते तदा व्याघातः स्यात् । न चैवमिष्टमतो नायमपि पक्षः । तथा च प्रकारद्वयस्य दुष्टत्वादन्यप्रकारस्याभावान्निराधारस्य चावस्थानायोगाद्भेदोऽयं गगनकुसुमाडम्बरं विडम्बयतीति । ननु यदा कुम्भो धर्मी जन्यते तदा तस्मिं स्तम्भभेदोऽपि तेन सहैव जायतेऽतो नानवस्थादोष | इत्यत आह ।। धर्मिणमिति || अनभ्युपगमादिति । न्यायमते पूर्वं द्रव्यमुत्पद्यते पश्चात्तद्धर्मा उत्पद्यन्ते इत्यङ्गीकारादिति भावः । अङ्गीकारे बाधकमाह ॥ अभ्युपगम इति । अगुणं गुणहीनम् । गुणानां द्रव्यसमवायिकारण- कत्वात्कारणस्य पूर्ववृत्तित्वात्क्षणमगुणमित्युपेयते न त्विह तथेत्यत आह ।। गुणानामिति । रूपादीनामित्यर्थः । एतैरेव तर्कैर्जडजीवयोरन्योन्यभेदः प्रत्युक्तो वेदितव्यः । कथं भेदस्य प्रत्यक्षग्राह्यत्वमिति प्रतिज्ञातमुपपाद्योप- संहरति ।। अत इति । उक्तदूषणगणादित्यर्थः । ननु माऽस्तु प्रत्यक्षं भेदे मानमनुमानं तु स्यादित्यत आह ।। यदा त्विति । एवं जडानामन्योन्यं भेदमप्रामाणिकत्वेन निरस्य जीवपरयोरपि तन्निरस्यति || आत्मेति । जीवात्मपरमात्मनोर्भेद इत्यर्थः । प्रमाणगन्धं प्रमाणस्पर्शलेश- मपीत्यर्थः । प्रतिज्ञातमुपपादयितुं प्रत्यक्षं तावन्न क्रमत इत्याह । नेति ॥ तत्रेति । आत्मभेद इत्यर्थः । तत्र हेतुमाह । परमात्मन इति । ननु जीवस्याहमिति प्रत्यक्षत्वाद्भेद: प्रत्यक्षः किन्न स्यादित्यत आह ।। प्रत्यक्षेति । वायोः स्पर्शानुमेयत्वमुपेत्यैतदिति ध्येयम् । ससम्बधिप्रत्यक्षे सम्बन्धि - द्वयप्रत्यक्षस्य हेतुत्वादिति भावः । एतेन जीवानामन्योन्यं भेदस्य प्रत्यक्षत्वं प्रत्युक्तम् । स्वात्मनः प्रत्यक्षत्वेऽपि परमात्मनोऽप्रत्यक्षत्वात् । एतेनैव जडस्येश्वराद्भेदस्य प्रत्यक्षत्वं निरस्तम् । घटादेः कस्यचिज्जडस्य प्रत्यक्ष- त्वेऽपीश्वरस्याप्रत्यक्षत्वादिति । एवमात्मभेदप्रत्यक्षं निरस्य जीवात्मपरमात्म- साधारण्येनात्ममात्रे तार्किकोक्तं भेदसाधकमनुमानमाशङ्क्य निरस्यति ! आत्मेति । आत्मनि स्वभेदस्य बाधेनात्मान्तरादसिद्धिरिति भावः । आदि- पदेन ब्रह्म जीवाद्भिन्नं सर्वज्ञत्वात् जीवो वेश्वराद्भिन्नोऽल्पज्ञत्वादित्यादिकं गृह्यते ॥ दृष्टान्तालाभेति । आत्मत्वाक्रान्तस्य पक्षत्वेनात्मभेदवतोऽन्यस्या- भावाद्व्यतिरेकदृष्टान्तस्य त्वन्मते आत्मत्वहीनस्यात्मप्रतियोगिकभेदहीनस्य कस्याप्यभावादिति भावः ।

Loading…