Join Tattvasudhā to study.

भेदस्य प्रत्यक्षाद्यग्राह्यत्वपूर्वपक्ष:

§29Mūla

किञ्च किमयं भेदो भिन्नमेव धर्मिणं परिरभत उताभिन्नम्। नाद्यः । अनन्तभेदाभ्युपगमप्रसङ्गात् । सन्त्वनन्तभेदाः । किन्नश्छिन्नमिति चेन्न । तेऽनन्ताः किं क्रमेण भेदा धर्मिणं परिरभन्ते युगपद्वा । नाद्यः । क्रमेण परिरभमाणानन्तभेदसम्बन्धाय धर्मिणोऽनादिनित्यता- पातात् । प्रतिक्षणमेकैकभेदसम्बन्धेऽप्यनन्तक्षणवृत्तित्वस्य दुष्परिहरत्वात् । न द्वितीयः । भिन्ने भेदस्थितिरिति पक्षक्षतेः । भेदसम्बन्धं विना भिन्नत्ववाचोयुक्तेरयुक्तत्वात् । तत्सम्बन्धेनैव च भिन्नत्वे केन भेदेन विशिष्टे कस्य भेदस्य स्थितिरिति नियामकाभावात्तेषां कलहानैकोऽपि भेदो निविशेत् । तथाऽपि चेच्छ्रद्धाजडोऽनन्तभेदानभ्युपैति । तदाऽभ्युपैतु यदि भेदपरम्परा संविदमध्यारोहेत् ।

एवमियता ग्रन्थेना भेदप्रतीतिं निरस्येदानीं विषयभूतं भेदं च निरसितुमाह । किञ्चेति । अयं भेदः स्तम्भात्कुम्भस्य भेदः स्तम्भाद्भेद- वन्तमेव कुम्भं परिरभते आश्रयत्युत स्तम्भाभिन्नमाश्रयतीत्यर्थः ।। अनन्तेति । स्तम्भाद्भेदः कुम्भे स्वस्यावस्थानार्थं कुम्भे स्तम्भभेदमपेक्षते । स च स्वयमेव चेत्तदा स्वविशिष्टे स्वस्यावस्थानमित्यात्माश्रयापातः । अतो भेदान्तरविशिष्टे स्वयं तिष्ठतीति वाच्यम् । भेदान्तरं च स्तम्भाद्भेदवत्येव कुम्भे स्वयं तिष्ठतीति वाच्यम् । एतद्भेदविशिष्टे च तद्भेदस्य तद्भेदविशिष्टे चैतद्भेदस्यावस्थानेऽन्यो- न्याश्रयस्य चक्रकस्य वाssपातेन भेदान्तरवत्येव भेदान्तरं तदपि भेदान्तरव- त्येवेत्यभ्युपगमेऽपर्यवसितानन्तभेदापातादित्यर्थः । नन्वनन्तानामपि भेदानां बीजाङ्कुरवन्मूलक्षयाभावादपर्यवसितत्वेऽपि न दोषः । तथा च तर्कस्येष्टा- पादनरूपत्वादाभासत्वमिति शङ्कते ॥ सन्त्विति ॥ किन्नश्छिन्नं न काचिदस्माकं हानिरभूदित्यर्थः । अनन्तभेदाभ्युपगमस्यानिष्टतां वक्तुं विकल्पयति ।। तेऽनन्ता इति ॥ क्रमेणेति । एकभेदाश्रयानन्तरमपरभेद आश्रयति तद्भेदानन्तरमन्यो भेदस्तदनन्तरमन्यो भेद इत्येवम्पर्यायेणेत्यर्थः ॥ युगपदिति । अनन्ता अपि भेदा एकदैव धर्मिणमाश्रयन्तीत्यर्थः । अनादीति । न हि पूर्वोत्तरकालावधिरहितभेदपरम्पराधारत्वं पूर्वोत्तरकालावधिमतः सञ्जाघटीति । तथा चानिष्टं द्विविधम् । प्रामाणिकहानिरप्रामाणिकस्वीकारश्च । एवञ्च घटादेः प्रमितोत्पत्तिविनाशपरित्यागोऽप्रमितानादितास्वीकारादीति प्रादुःष्यादित्यर्थः । न चैकैकक्षणे एकैको भेदो धर्मिणमाश्रयति । एवञ्चैकस्मिन्नेव दिनेऽनेकक्षणलाभादनेकभेदसम्बन्धेऽपि नानादिनित्यतेत्यत आह || प्रतिक्षणमिति । युगपदेव धर्मिणं परिरम्भन्त इति पक्षं क्षिणोति ॥ न द्वितीय इति । भिन्नमेव धर्मिणं भेदः परिरभत इति पक्ष एवास्य विकल्पस्यावतारात् । सर्वेषामेकदा धर्म्यालिङ्गने एकभेदविशिष्टेऽपरभेदस्य स्थितिरिति पक्षस्य भङ्गादित्यर्थः । क्षतिमेव व्यनक्ति ॥ भेदेति । नन्वनन्तेष्वपि भेदेष्वेकभेदविशिष्टा इतरभेदा एकदा निविशन्ति । एवञ्च न भिन्ने भेदस्थितिरिति पक्षक्षति: । नापि धर्मिणोऽनादिनित्यतेत्याशङ्क्य निराचष्टे ।। तत्सम्बन्धेनेति । अहं पूर्वं स्थास्याम्यहं पूर्वमिति विवादादिति । तथाविधभेदानुसन्धातुर्बुद्धिमभिप्रेत्यैवमुक्तमिति ध्येयम् । नन्वनन्तभेदानां प्रामाणिकत्वात्प्रमाणमेव सर्वदोषानाभासीकरिष्यतीत्यत आह ।। तथाऽपीति । अनवस्थादिदुष्टत्वेऽपीत्यर्थः । श्रद्धाजडोऽवश्यं भेदोऽङ्गीकर्तव्य इति बुद्ध्या जड उक्तदोषानपश्यन् । तथा चाप्रामाणिकत्वान्नाङ्गीकारार्हेति भावः ।

Loading…