भेदस्य प्रत्यक्षाद्यग्राह्यत्वपूर्वपक्ष:
किञ्च धर्मिणो भिन्नत्वेन प्रतीतस्य प्रतियोगिताऽप्रतीतस्य वा । नाद्यः । परस्पराश्रयतापातात् । स्तम्भात्कुम्भभेदसिद्धौ कुम्भात्स्तम्भभेदसिद्धिरिति । न द्वितीयः । आत्मनोऽपि प्रतियोगितापातात् । ननु निर्विकल्पकसंविदि भेदस्य भेदिनोश्च युगपदङ्गुलित्रयवदवभासे पुनः सविकल्पकधिया तद्विशेषण विशेष्यभावग्रहणोपपत्तेः कथमितरेतराश्रय इति चेन्न । निष्प्रतियोगिकभेदग्रहणस्यैवायोगात् । सर्वदा प्रतियोगिघटित एव तस्मिन्प्रमाणप्रसरात् ।
एवमनवस्थया भेदबुद्धिमवतार्यान्योन्याश्रयेण निरस्यति ॥ किञ्चेति । धर्मिण इति पञ्चमी । परस्पराश्रयतामेव व्यनक्ति ।। स्तम्भादिति । तत्सिद्धौ तत्सिद्धिरिति वाक्यशेषः । स्तम्भात्कुम्भस्य भेद इति कुम्भस्य भेदं प्रति धर्मित्वं स्तम्भस्य चावधित्वेन प्रतियोगित्वं प्रतीत्य हि भेदः प्रत्येतव्यः । भेदप्रतीत्यपेक्षा च धर्मिप्रतियोगित्वप्रतीतिः । अन्यथा कुम्भस्येति स्तम्भादिति च विलक्षणप्रतीत्यनुपपत्तेः । तथा च स्तम्भात्कुम्भस्य भेदे ज्ञाते कुम्भस्य प्रतियोगित्वज्ञानेन कुम्भात्स्तम्भस्य भेदज्ञानम् । कुम्भात्स्तम्भस्य भेदज्ञाने स्तम्भस्य प्रतियोगित्वज्ञानेन स्तम्भात्कुम्भभेदसिद्धिरिति परस्पराश्रयापातादिति पूर्वेणान्वयः ॥ आत्मनोऽपीति । भिन्नत्वेनाप्रतीतस्यापि प्रतियोगित्वे स्तम्भादेः स्वनिष्ठं भेदं प्रति स्वस्यापि प्रतियोगित्वं स्यादित्यर्थः । न चाभिन्नत्वेनाज्ञातस्य भेदप्रतियोगित्वम् । एवञ्च स्वस्य स्वात्माभिन्नत्वेनैव ज्ञानान्न स्वनिष्ठभेदं प्रति स्वस्य प्रतियोगित्वापत्तिः । स्तम्भस्य च कुम्भाभिन्नत्वेनाज्ञानात्कुम्भनिष्ठभेदं प्रति प्रतियोगिता स्यादेवेति वाच्यम् । नञ्द्वयगर्भाभेदाज्ञानापेक्षया भेदज्ञानस्यैव लघुत्वेन तत्रत्वात् । यत्तु धर्मिनिष्ठभेदं प्रति प्रतियोगित्वें धर्मिनिरूपितभेदवत्त्वमेव तन्त्रं न तु तज्ज्ञानं येनान्योन्याश्रय इति । तन्न । प्रतियोगित्वज्ञाने धर्मिणो भिन्नत्वज्ञानस्या- वश्यकत्वादित्यास्तां तावत् । निर्विकल्पकपक्षमवलम्ब्यान्योन्याश्रयत्वोद्धार- माशङ्कते । नन्विति । भेदिनोः स्तम्भकुम्भयोः ।। निष्प्रतियोगिति । स्वातन्त्र्येण भेदग्रहस्य निरस्तत्वादित्यर्थः । ननु निर्विकल्पके नायं नियम इत्यत आह ।। सर्वदेति । तस्मिन्भेद इत्यर्थः । निर्विकल्पकस्यापि प्रमाणत्वादिति भावः । इदमत्र तर्कशरीरम् । यदि भेदधीर्धर्मिप्रतियोगिधीजन्या स्यात्तर्ह्यन्योन्याश्रयः स्यात् । धर्मिप्रतियोगिज्ञानस्य भेदधीसापेक्षत्वात् । न चान्योन्याश्रयोऽङ्गीकर्तुं शक्यः । तस्मान्न भेदधीस्तत्सापेक्षेति । एवञ्च भेदज्ञानस्य कारणाधीनत्वे निरस्तेऽकारणकस्यायोगाद्भेदधीः स्वतो निवर्तत इति भावः ।