भेदस्य प्रत्यक्षाद्यग्राह्यत्वपूर्वपक्ष:
विद्यमानभेदस्य स्वरूपेण गृहीतस्य विशेषणतोपपत्तौ किं भेदाप्रतीतिः करिष्यतीति चेन्न । दूरस्थवनस्पत्योः क्षीरनीरयोर्वा स्वरूपतो विद्यमानभेदयोरपि स्फुरतोः संयुक्तत्वादिप्रतीत्यदर्शनात् । तत्र समानाभिघा- तदोषादप्रतीतिरिति चेन्न । विद्यमानभेदयोः स्वरूपेण स्फुरतोर्विशेषण- विशेष्यभावग्रहणस्थलस्य सम्प्रतिपन्नस्याभावात् ।
नन्वस्तु विशेषणतया भेदधीः । न चैवं पूर्वपूर्वभेदपरम्पर- याऽनवस्था । वस्तुतो विशेष्यनिरूपितभेदवतो भेदस्य विशेष्याद्भिन्नत्वा- भिन्नत्वौदासीन्येन स्वरूपेण ज्ञातस्य विशेषणत्वेन बुद्ध्युपपत्तेरप्रयोजक- त्वादाभासस्तर्क इत्याशङ्कते ॥ विद्यमानेति । विद्यमानो भेदो यस्येति बहुव्रीहिः । स्वरूपेणेति । विशेष्याद्भिन्नत्वाद्यौदासीन्येनेत्यर्थः । गृहीतस्ये- त्यनन्तरं भेदस्येति शेषः ।। भेदाप्रतीतिरिति । विशेषणविशेष्यभूतयोर्भेद- र्भेदिनोरिति योज्यम् । किमित्याक्षेपे । विशिष्टबुद्धौ विशेषणविशेष्य- भेदधीस्तन्त्रं न तु स्वरूपेण विद्यमानभेदत्वम् । व्यभिचारादित्याह ॥ दूरस्थेति । समीपे विशिष्टधीदर्शनाद्दूरस्थेत्युक्तम् । संयुक्तयोरिति शेषः । ननु सम्बन्धिनोरज्ञानादेव न तत्र विशिष्टधीरित्यत उक्तं स्फुरतोरिति । स्वरूपत इति वर्तते ॥ संयुक्तत्वादीति । संयोगविशेषणकवृक्षादि- विशेष्यकबुद्धेरदर्शनादित्यर्थः । ननु नायं दोषः । दूरस्थे वृक्षादौ संयुक्तत्वबुद्ध्यभावो वस्तुतो विद्यमानभेदस्यातन्त्रत्वान्न भवति किन्तु सजातीयद्रव्यसमर्पकरूपदोषादेव । न हि प्रतिबन्धकेन कार्यमजनयदतन्त्रम् | भर्जितव्रीहेरङ्कुराहेतुत्वेन व्रीहिमात्रेऽपि तद्धेतुता भज्येतेत्याशङ्क्य स्वरूपेण विद्यमानभेदस्य वस्तुतो विशेषणताबुद्धेः काप्यदर्शनेन प्रकृतेऽपि तत्कल्पना न युक्तेत्याह ।। तत्रेति । ननु दण्डी चैत्र इत्ययमेव दृष्टान्त इत्यत आह ।। सम्प्रतिपन्नस्येति । तत्रापि ममं विप्रतिपत्तिरिति भावः एवञ्च तर्कस्यान्यथोपपत्तेरभावान्नाभासत्वमिति भावः ।