Join Tattvasudhā to study.

भेदस्य प्रत्यक्षाद्यग्राह्यत्वपूर्वपक्ष:

§29Mūla

अनन्तभेदाभ्युपगमेऽपि मूलक्षतेरभावान्नानवस्थादोष इति चेन्न । अयमितो भिन्न इति वाऽनयोर्भेद इति वा । नाद्यः । विशिष्टत्वेनैव प्रतीतिनियमात् । न द्वितीयः । भेदेनैव विज्ञातस्य विशेषणत्वात् । ततश्च पूर्वपूर्वभेदप्रतीतिमन्तरेणोत्तरोत्तरभेदाप्रतीतेरनन्तत्वाद्युगपत्प्रतीतेरयोगाच्च मूलक्षतेरनवस्था सुस्थैवेति ।

नन्वियमनवस्था प्राथमिकभेदस्योत्पत्तिज्ञप्त्योरन्यतरप्रतिबन्धकत्व लक्षणमूलक्षयकारणत्वाभावाद्बीजाङ्कुरानवस्थावन्न दोषावहेति शङ्कते ॥ अनन्तेति । उत्पत्तिप्रतिबन्धकत्वाभावेऽपि प्राथमिकभेदज्ञप्तिप्रतिबन्धकत्वम- स्त्येवेति भावेन परिहरति ॥ नेति । ज्ञप्तिप्रतिबन्धकत्वमुपपादयितुं भेदगोचर- ज्ञानाकारं विवेचयति । अयमिति । घट इत्यर्थः । अनयोर्घटपटयोरित्यर्थः । इति वेत्यनन्तरं भेदोऽवभासत इति शेषः । भेदस्य विशेषणतया प्रतीतिराद्ये विवक्षिता । द्वितीये तु विशेष्यतयेति ध्येयम् ॥ विशिष्टत्वेनैवेति । विशेषणविशेष्यभावापन्नतयेत्यर्थः । तथा च द्वितीयपक्षे वक्ष्यमाणदोषेण दुष्टतेति भाव: ।। भेदेनैवेति । दण्डीकुण्डलीकमण्डलुमानित्यादिविशिष्टज्ञाने देवदत्ताद्भेदेनैव प्रतीतस्य दण्डादेर्विशेषणत्वदर्शनादिति भावः ।। विशेषण- त्वादिति । विशेष्यत्वादित्यपि बोध्यम् । नन्वस्तु भिन्नत्वेन ज्ञातस्य विशेषणत्वं विशेष्यत्वं वा । प्रकृते च घटाद्भिन्नत्वेन ज्ञातस्यैव पटभेदस्य घट: पटाद्भिन इति घटविशेषणतया घटपटाभ्यां भिन्नत्वेन ज्ञातस्य च भेदस्य घटपटयोर्भेद इति तदुभयविशेष्यतया च प्रतीतिसम्भवादित्याशङ्क्याह ॥ ततश्चेति विशेषणविशेष्यभावप्रतीतेर्विशेषणविशेष्यभेदप्रतीतिसापेक्षत्वा- दित्यर्थः । ततश्चेत्यस्यानवस्था सुस्थैवेत्यनेनान्वयः । भेदाप्रतीतेर्भेद- प्रतीतेरभावात् । कथमित्यत उपपादयति । पूर्वपूर्वेति । घट: पटाद्भिन्न इति घटे पटभेदस्य विशेषणतया ज्ञानं विशेष्यभूतस्य घटस्य विशेषणभूतस्य पटभेदस्य च भेदज्ञाने सत्येव घटपटभेदयोर्विशेष्यविशेषणतया प्रतीतिर्घटपट- भेदयोर्भेदस्य च ज्ञानं न स्वातन्त्र्येण निरस्तत्वात् । किन्तु पटाद्भिन्न इति भेदस्य विशेष्यतया घटभेदस्य च विशेषणतया । तथा च पटभेदनिष्ठघटभेदस्य च भेदापेक्षया विशेषणत्वेन भानादान्तरालिकभेदज्ञाने सति तस्याप्येव- मित्यनवस्था । एवं घटपटयोर्भेद इत्यत्रापि भेदभेदिनोर्भेदज्ञानमन्तरा भेदज्ञानमपि न सिध्यति । तदपि तत्पूर्वभेदज्ञानसापेक्षमित्यनवस्थेति । ननु सर्वेषामपि भेदानां युगपज्ज्ञाने सति विशेषणादितया प्रतीति- रुपपन्नेत्यत आह ।। अनन्तत्वादिति । तथा च पूर्वपूर्वभेदज्ञानानाम- भावेनोत्तरोत्तरभेदज्ञानानामभावात्प्राथमिकभेदज्ञानमपि न सिध्येदित्यनवस्था सुस्थेत्यर्थः । अयमत्र तर्कप्रयोग: । यदि विशेषणविशेष्यतया भेदः प्रतीयेत तर्हि पूर्वपूर्वभेदप्रतीतिपरम्परयाऽनवस्था स्यात् । न चैवमङ्गीकर्तुं शक्यते । अतो न भेदप्रतीति: सम्भवतीति ।

Loading…