Join Tattvasudhā to study.

भेदस्य प्रत्यक्षाद्यग्राह्यत्वपूर्वपक्ष:

§29Mūla

ननु कथं प्रत्यक्षस्य भेदग्राहकत्वम् । तत्किं भेदमेव गोचरयेदुत वस्त्वपि । नाद्यः । धर्मिप्रतियोगिप्रतीतिमन्तरेण भेदप्रति- पत्तेरयोगात् । द्वितीये किं भेदपूर्वं वस्तु वस्तुपूर्वं वा भेदं युगपद्वोभयं गोचरयेत् । नाद्यः । दत्तोत्तरत्वात् । न द्वितीयः । बुद्धेर्विरम्यव्यापारायोगात्। नापि तृतीयः । कार्यकारणबुद्ध्योर्यौगपद्यायोगात् । तत्तद्भेदस्य भेदान्तरभेदेऽनवस्थानम् ।

स्यादेतत् । यदि प्रत्यक्षं भेदग्राहि स्यात्तदा भवेत्तद्वाधो भेदमिथ्यात्वानुमानस्य । तदेव न सम्भवतीत्यभिप्रायेण पूर्वपक्षमारचयति ॥ नन्विति । कथमित्याक्षेपे न कथमपीत्यर्थः । तथा हि । प्रत्यक्षं भेदग्राहीति वदन्वादी प्रष्टव्यः । किं स्वातन्त्र्येण भेदं गोचरयेदुत धर्मिप्रतियोगिविशेषण- विशेष्यतया । तत्र तावदाद्ये प्रतिज्ञातं भेदस्य प्रत्यक्षाग्राह्यत्वमुपपादयितुं विकल्पयति ॥ तत्किमिति । तत्प्रत्यक्षमित्यर्थः । भेदमेवेति । धर्मिप्रति - योगिनावगृहीत्वा केवलं भेदमित्यर्थः । वस्त्वपीति । स्वनिरूपकं धर्मिप्रति- योग्याख्यमर्थं भेदं चेत्यर्थः ॥ अयोगादिति । भेदस्यान्योन्याभावरूपत्वेन सद्भ्यामधिकरणप्रतियोगिभ्यामभावो निरूप्यत इति न्यायेन धर्मिप्रतियोगि- ज्ञानस्य भेदज्ञाने कारणत्वेन कारणाभावे कार्यानुदयादित्यर्थः । भेदं वस्तु च द्वयं गृह्णातीति पक्षेऽपि पूर्वं भेदं गृहीत्वा पश्चान्निरूपकं धर्मिप्रतियोग्या- व्यवस्तु गृह्णात्युत वस्तु गृहीत्वा पश्चाद्भेदमथैकदा द्वयमपीति विकल्पपूर्वं क्रमेण दूषयति । द्वितीय इति ।। भेदपूर्वं वस्त्विति । गोचरयेदिति वक्ष्यमाणे- नान्वयः । प्रत्यक्षमिति वर्तते ।। दत्तेति । धर्मिप्रतियोगिप्रतीतिमन्तरेण पूर्वं भेदज्ञानायोगादित्युक्तत्वादित्यर्थः ॥ विरम्येति । पूर्वं वस्तु गृहीत्वा पश्चाद्भेदग्रहस्य विलम्बितत्वेनायोगादित्यर्थः । इदं च प्राक् पक्षेऽपि योज्यम् ।। कार्यकारणेति । धर्मिप्रतियोगिज्ञप्तेः कारणत्वाद्भेदबुद्धेश्व कार्यत्वात्कार्य- कारणभावस्य च नियतपौर्वापर्यगर्भतया यौगपद्यमयुक्तमित्यर्थः । धर्मिप्रति- योगिविशेषणविशेष्यतया भेदग्राहिप्रत्यक्षमिति द्वितीयपक्षेऽनवस्थापत्त्या न प्रत्यक्षस्य भेदग्राहकत्वमिति वक्तुमाह । तत्तदिति । यद्वा युगपदुभयमिति तृतीयकल्पेऽङ्गुलिद्वयवत्स्वातन्त्र्येण भानस्योक्तरीत्याऽयोगेन विशेष्यतयैव भाने वक्तव्ये तत्रानवस्थालक्षणदोषान्तरं वक्तुमाह ॥ तत्तदिति। यद्वा युगपदुभयमिति तृतीयकल्पेऽङ्गुलिद्वयवत्स्वातन्त्र्येण भान- स्योक्तरीत्याऽयोगेन विशेषणविशेष्यतयैव भाने वक्तव्ये तत्रानवस्थालक्षण- दोषान्तरं वक्तुमाह । तत्तदिति ॥ बुद्धिस्थं घटपटादिकं तत्तच्छब्देन गृह्यते । तथा चायमर्थः । भेद: किं धर्मिस्वरूप उत ततो भिन्नः । नाद्यः । घटभेद- शब्दयोः पर्यायतापातात् । अन्यतरपरिशेषापाताच्च । न द्वितीयः । भेदस्य धर्मिणो घटाद्भेदे तुल्यन्यायतया सोऽपि भेदः स्वधर्मिभूताद्भेदाद्भिन्नो वाच्यः सोऽपि भेदस्तथेत्यनवस्थितानन्त भेदापत्त्याऽनवस्था स्यादिति ।

Loading…