Join Tattvasudhā to study.

भेदमिथ्यात्वानुमानस्य सोपाधिकत्वकथनम्

§28Mūla

अप्रमाणगम्यत्वमुपाधिश्च । भेदत्वादेव तदपि स्यादिति चेन्न । प्रातिभासिकत्वस्याप्यापातात् । अथात्र व्यवहारनिर्वाहकता प्रतीयत इति चेत्तर्ह्यत्र प्रत्यक्षादिप्रमाणसिद्धतां च किन्न पश्यसि ॥ छ ॥ भेदमिथ्यात्वानुमानस्य सोपाधिकत्वकथनम् ॥ छ ॥

भेदमिथ्यात्वानुमानेऽसिद्धिमुक्त्वोपाधिं चाह ।। अप्रमाणेति । अप्रमाणेन गम्यत्वमप्रमाणगम्यत्वम् । अप्रमाणजन्यज्ञानविषयत्वमित्यर्थः । न च भेदस्यापि भेदो मिथ्या भेद आविद्यको भेद उपाधिकृतो न स्वाभाविक इत्याद्यप्रमाणविषयत्वात्साधनव्यापकतेति वाच्यम् । भ्रान्तिप्रतीतत्वस्य विवक्षितत्वात् । तस्य च बाधितचन्द्रभेदसत्त्वेन साध्यव्यापकत्वात् । पक्षे चाभावेन साधनाव्यापकत्वाच्च । ननु भ्रमप्रतीतत्वमप्यनेन हेतुना पक्षे साध्यते । एवञ्च न साधनाव्यापकतेति शङ्कते ॥ भेदत्वादिति । स्यादिति । पक्ष इति शेषः । विमतो भेदः प्रातिभासिको भेदत्वाच्चन्द्रभेदवदित्याभाससाम्यापत्तेर्नैवमित्याह । प्रातिभासिकत्वस्येति । ननु नाभाससाम्यम् । प्रातिभासिकत्वस्य व्यावहारिकत्वग्राहिप्रत्यक्षबाधादित्याशङ्क्य सममत्रापीत्याह ॥ अथेति । तर्ह्यत्रेति । घटादिभेद इत्यर्थः ।। छ ||

Loading…