भेदमिथात्वानुमानेऽसिद्धिकथनम्
भेदो मिथ्या भेदत्वाच्चन्द्रभेदवदित्यनुमानमस्त्विति चेन्न । साध्यानिरुक्तेः । दृष्टान्ते साधनविकलत्वं च । तत्र तद्भेदासत्त्वेन भेदत्वस्यैवाभावात् । परमार्थतस्तदभावेऽपि कथञ्चिदस्ति भेदोऽतो भेदत्वमपीति चेन्न । तादृशस्य भेदत्वस्य पक्षेऽनन्वयात् । अवधूयैव बाधितत्वादिविशेषं भेदत्वसामान्यस्यैव हेतुतेति चेन्न । धूमबाष्पयोर्धूमत्ववत्सामान्यस्याप्यभावात् । अन्यथाऽनवधारितबाधितत्वाबाधितत्वादिविशेषेण धूमवत्त्वमात्रेण हृदादेरपि सदहनतापातात् ॥ छ ॥ भेदमिथात्वानुमानेऽसिद्धिकथनम् ॥ छ ॥
ननु मास्त्वभेदानुमानं विरोधि भेदमिथ्यात्वानुमानं तु भेदसत्यत्वविरोधीति भावेन शङ्कते ॥ भेद इति । विमत इति शेषः ॥ चन्द्रेति । अङ्गुल्यवष्टब्धनेत्रेण दृश्यमानचन्द्रभेदवदित्यर्थः ।। साध्यानिरुक्तेरिति । प्रागुक्तमिथ्यात्वविकल्पदोषाणामापत्तेरित्यर्थः । साधनवैकल्यमेवोपपादयति । तत्रेति । चन्द्रे चन्द्रभेदस्य असत्त्वेन भेदसामान्याभावादित्यर्थः । ननु चन्द्रे चन्द्रभेदस्य वास्तवस्याभावेऽप्यारोप्यस्य चन्द्रभेदस्य चन्द्रे सत्त्वेन तत्रारोपितं भेदत्वमप्यस्तीति शङ्कते ॥ परमार्थत इति ॥ तादृशस्येति । बाधितस्येत्यर्थः (आरोपितस्येत्यर्थः ) । तथा चासिद्धिरित्यर्थः । ननु बाधितत्वाबाधितत्वरूपविशेषौदासीन्येन भेदत्वमेव हेतुरस्त्वित्याशङ्क्य सदृष्टान्तमसिद्धिमाह || अवधूयेति । ननु तत्रापि धूमत्वसामान्यमस्त्वित्यत आह ।। अन्यथेति । छ ।