भेदबाधकतया प्रतीयमानयुक्तिनिरासः
यथाऽऽकाशस्य स्वगतो भेदो नास्ति तथा जगदाख्ये पदार्थसमुदायेऽपि न तादृशभेद इति चेदत्रापि कोऽर्थः । यथाऽऽकाशस्याप्याकाशप्रतियोगिको भेदो नास्ति तथा जगतोऽपि तत्प्रतियोगिको भेदो नेत्यर्थाभ्युपगमे सिद्धसाधनम् । अथ यथा घटाकाशमठाकाशयोर्न भेदस्तथा जगदंशयोरपीति चेन्न । साध्यविकलत्वाद्दृष्टान्तस्य । व्योम्नोऽपि संयोगित्वेन सावयवत्वसाधनादित्यलम् ॥ छ ॥ आपाततो भेदबाधकतया प्रतीयमानयुक्तिनिरासः ॥ छ ॥
साध्यतात्पर्यमन्यथा शङ्कते ॥ यथेति । साध्याभिप्रायं विविच्य दूषयति । अत्रापीति । तत्प्रतियोगिक इति । जगत्प्रतियोगिक इत्यर्थः ॥ सिद्धेति । जगति जगद्भेदानङ्गीकारादिति भावः ।। घटाकाशेति । विशेष्यभूतयोरित्यर्थः । ननु कथं साध्यवैकल्यम् । आकाशस्य निरवयवत्वेन घटाकाशमठाकाशयोर्वास्तवभेदाभावात् । सावयवत्वे तस्यानित्यत्वप्रसङ्गात् घटादिवदित्यत आह ।। व्योम्नोऽपीति । यथा घटादेः सावयवत्वं तथा व्योम्नोऽपीत्यपेरर्थः । तथा च प्रयोगः । व्योम सावयवं संयोगित्वाद्घटवदिति । न चाप्रयोजकत्वम् । संयोगस्यैकदेशवृत्तित्वेन व्योम्नो निरवयत्व एकावयवरूपैकदेशवृत्तित्वायोगात् । प्रतीयते चेह पक्षी नेह पक्षीति संयोगस्यैकदेशवृत्तित्वम् । न च स्वाभाविकप्रदेशानामभावेऽप्यौपाधिकानां तेषां सत्त्वेन हेतोरन्यथोपपत्तिरिति वाच्यम् । उपाधिरप्येकदेशं सम्बध्य प्रदेशं करोत्युत सर्वम् । न द्वितीयः । असम्भवात् । आद्ये सोऽपि देश एतदुपाधिकृत उतोपाध्यन्तरकृतः । आद्ये आत्माश्रयः । अन्त्येऽन्योन्योश्रयचक्रकाश्रयानवस्थान्यतमापातात् । तस्मात्स्वाभाविका एवांशा वाच्याः । न च परमाणौ व्यभिचारः । तस्यापि पक्षतुल्यत्वात् । न चैवं परमाण्ववयवानामप्युक्तन्यायेन सावयवत्वे तदवयवानामप्येवमिति विश्रान्त्यभावेनानेकावयवारब्धत्वाविशेषान्मेरुसर्षपयोस्तुल्यपरिमाणत्वप्रसङ्ग इति वाच्यम् । सर्षपोपादानभूतपरमाणोरत्यल्पदेशस्थत्वेन तदवच्छेदेनैव विश्रान्तानामवयवानामभ्युपगमात् । मेरूपादानभूतानामवयवानां विपुलदेशावस्थितत्वेन तुल्यपरिमाणत्वाप्रसक्तेः । न चैवं यतः परमाणुर्नास्ति स परमाणुरिति परमाणुत्वस्य व्याघात इति वाच्यम् । यतः परं विभक्तोऽणुर्नास्ति स परमाणुरित्यर्थात् । अत एवाभाणिषुर्भगवत्पादा अविभागः पराणुतेति । न चैवमनित्यत्वप्रसङ्गः । तस्य जन्यत्वप्रयुक्तत्वेनाप्रयोजकत्वात् । न च सावयवत्वे जन्यत्वं नियतम् । व्याप्यसिद्धेरिति । तदेतत्सर्वं वैशेषिकाधिकरणे न्यायसुधायां सविस्तरं व्युत्पादितत्वात्तत्रैवानुसन्धेयमित्यभिप्रेत्याह ।। इत्यलमिति । इदं सावयत्वसाधनमव्याकृताकाशाभिप्रायेण । परमते आकाशद्वैविध्याभावात् । भूताकाशस्य च मतद्वयेऽपि जन्यत्वेन सावयवत्वाभ्युपगमादिदं मतत्वादित्यनुमानमुन्मत्तगानमिति ध्येयम् । यद्वा यथा जीवानामीश्वराद्भेदस्य जडानामन्योन्यं भेदस्य च विरोधिभूतमनुमानद्वयमपाकृतं तथा जीवानां जडजीवयोर्जडेशयोश्च भेदविरोध्यनुमानं कुतो न निरस्तमित्यतस्तदनेनैव न्यायेन शिष्यैरेवोहितुं शक्यमित्यभिप्रेत्याह ॥ इत्यलमिति । तथा हि । विमता जीवाश्चैत्रात्तत्त्वतो न भिद्यन्ते जीवत्वाच्चैत्रवदिति जीवानामन्योन्यं भेदविरोध्यनुमानं तथा विमतं ब्रह्मतस्तात्त्विकभेदहीनं वस्तुत्वाद्ब्रह्मवदिति जडस्येशभेदविरोध्यनुमानं च जीवाश्चैत्राद्व्यवहारतो न भिद्यन्ते जीवत्वाच्चैत्रवदित्याद्याभासेन विमतं ब्रह्मतो व्यावहारिकभेदहीनं वस्तुत्वाद्ब्रह्मवदिति चाभासेन समत्वादयुक्तम् । विमतं जीवात्तत्त्वतो न भिद्यते वस्तुत्वाज्जीववदित्याभाससाम्यात्प्रत्युक्तम् । विमता संवित्स्वान्तर्गणिकभेदहीना उपाधिभेदमन्तरेणाविभाव्यमानभेदवत्त्वाद्गगनवदित्यत्र च मूलोक्तरीत्या दृष्टान्तस्य साध्यवैकल्यमिति ध्येयम् ॥ छ ॥