भेदबाधकतया प्रतीयमानयुक्तिनिरासः
ननु कथं भेदसत्यता युक्तिमती । विमता आत्मानः परमात्मनः परमार्थतो न भिद्यन्ते आत्मत्वात्परमात्मवदित्यनुमानेन विरोधादिति चेन्न । आत्मत्वस्य प्रागेव निरस्तत्वात् । अस्तु तर्हि " विमतं तात्त्विकस्वान्तर्भेदहीनं मतत्वतः । यदित्थं तत्तथा यद्वत्खं तथेदं ततस्तथा " इत्यनुमानविरोध इति चन्न । विचारगोचरत्वात् । तथा हि । किमत्र स्वान्तर्भेदहीनताशब्देन प्रत्येकं पदार्थानां स्वगतभेदराहित्यमुच्यते उत भेदाधिकरणत्वविरहः । नाद्यः । सिद्धसाधनत्वात् । नोत्तरः । साध्यविकलत्वाद्दृष्टान्तस्य ।
उक्तं भेदसत्यत्वं समर्थयितुमापाततो भेदबाधकतया प्रतीयमाना युक्तीर्निराचिकीर्षुः शङ्कामुत्थापयति । नन्विति । कथं न कथमपीत्यर्थः । न हि प्रतिज्ञामात्रेणार्थसिद्धिरित्यतो जीवानां भगवता भेदे तावदनुमानविरोधमाशङ्कते ॥ विमता इति । भिन्नत्वेनाभिन्नत्वेन विवादविषया इत्यर्थः । परमात्मनो न भिद्यन्त इत्येवोक्तौ परेण व्यावहारिकभेदस्याङ्गीकारेण बाधः स्यादतः परमार्थत इति ।। परमात्मवदिति । परमात्मनि परमात्मभेदस्याभावादित्यर्थः ।। प्रागेवेति । अनिर्वाच्यत्वलक्षणखण्डनावसर इत्यर्थः । तथा चात्मत्वस्य ज्ञानाधारत्वादिरूपत्वे तवासिद्धिः । अवेद्यत्वादिरूपत्वे ममासिद्धि: । जातिरूपत्वे विरोध: । अबाध्यत्वादिरूपत्वेऽनैकान्त्यमिति बोध्यम् । इदानीं जडानामप्यन्योन्यं भेदेऽनुमानविरोधमाशङ्क्य निराकरोति ।। अस्त्विति । तर्ह्यात्मत्वानुमानासम्भवेऽपीत्यर्थः । मतत्वतो मतिविषयत्वात् ज्ञानविषयत्वादित्यर्थः । यदित्थमुक्तसाधनवत् । तत्तथोक्तसाध्यवत् । यद्वत्खं यथाऽऽकाशमित्यर्थः । इदं च जगत्तथा उक्तसाधनवदित्युपनयः । तत उक्तसाध्यव्याप्यसाधनवत्त्वात् । तथोक्तसाध्यवदिति निगमनम् ॥ विरोध इति । जडानां भेदसत्त्व इति शेषः ॥ स्वगतेति । स्वप्रतियोगिकेत्यपि ग्राह्यम् । तथा च घटः स्वगतस्वप्रतियोगिकभेदरहितः पटश्च तथा स्तम्भश्च तथेत्यर्थः ॥ उत भेदेति । यत्किञ्चित्प्रतियोगिकस्वगतभेदराहित्यमित्यर्थः । सिद्धसाधनेति । अस्माभिर्धाटादौ प्रत्येकं घटादिप्रतियोगिकभेदानभ्युपगमादिति भावः ॥ साध्यविकलत्वादिति । आकाशेऽपि घटादिभेदस्य तात्त्विकस्यास्माभिरङ्गीकारादिति भावः ।