विश्वसत्यत्वप्रतिपादनोपसंहारः
§25Mūla
तस्मात्सत्यभेदचेतनाचेतनात्मनो विश्वस्य हरिः कर्तेति निराबाधमवस्थितम् ॥ छ || विश्वसत्यत्वप्रतिपादनोपसंहारः ॥ छ ॥
एवमन्या आपाततो मिथ्यात्वपरत्वेन प्रतीयमानाः श्रुतयो यथायथमन्यार्थतया बुद्धिमद्भिर्योजनीया इति भावेनैतावता प्रबन्धेनोपपादितस्यार्थस्योपयोगं दर्शयन्प्रसङ्गान्तरोपक्षेपं च कुर्वन्नुपसंहरति ॥ तस्मादिति । विश्वमिथ्यात्वस्याप्रामाणिकत्वादित्यर्थः । सत्यस्तात्त्विको भेदो येषां चेतनानामचेतनानामन्योन्यं परमात्मना चेत्यर्थः । तथा च जीवानामन्योन्यं जडानामन्योन्यं जीवानां जडानां चान्योन्यं जीवानां परमात्मना जडानां च परमात्मना भेद इति पञ्चभेदास्तात्त्विका इत्युक्तं भवति ॥ हरिः कर्तेति । सत्याशेषजगज्जन्मपूर्वकर्त्र इत्युक्तं विशेषणं सुस्थमित्यर्थः ।। छ ||