Join Tattvasudhā to study.

सत्यं ज्ञानमिति श्रुत्यर्थ:

§24Mūla

अनन्तपदं च देशकालान्तवत्त्वाभावपरम् । तत्रैव व्युत्पन्नत्वात् । अन्तशब्दस्य देशतः कालतो वस्तुतः परिच्छिन्ने व्युत्पन्न- त्वात्तस्य नञ् समासे त्रिविधस्याप्यन्तस्य निषेधकत्वोपपत्तौ पृथग्व्युत्पत्ति- र्नापेक्षितेति चेन्न । अनन्तशब्दस्योक्तत्रयेऽव्युत्पन्नत्वादिति ॥ छ ॥ सत्यं ज्ञानमनन्तमिति श्रुत्यर्थः ॥ छ ॥

यदुक्तं तत्त्वप्रदीपिकायां सत्यं ज्ञानमनन्तमित्यत्रानन्तशब्दो मिथ्यात्वे मानम् । मानम् । अन्तशब्दस्य देशकालपरिच्छिन्नवस्तुव्युत्पन्नत्वात्तन्न भवतीत्युक्ते सर्ववस्त्वभेद एव लभ्यते । तथा चानन्तशब्दमहिम्ना मिथ्यात्वसिद्धिरिति । तदेतदयुक्तमिति भावेन तस्यार्थान्तरत्वं प्रतिजानीते ॥ अनन्तपदं चेति । देशकालपरिच्छेदाभावपरम् । न तु वस्तुपरिच्छेद- रूपभेदाभावपरमित्यर्थः । तत्र हेतुमाह ॥ तत्रैवेति । अनन्तपदस्येति सम्बन्धः । देशकालपरिच्छेदरहिते गगनादावनन्तपदप्रयोगादिति भावः शङ्कते || अन्तशब्दस्येति । तस्यान्तशब्दस्येत्यर्थः । तथा च वस्तुपरिच्छिन्नं नेत्युक्ते सर्ववस्त्वभेद एवोक्त इति मिथ्यात्वे पर्यवस्यतीति भावः ॥ पृथगिति । अवयवशक्त्यैवोपपत्तौ समुदायशक्तिकल्पने मानाभावाद्गौरवाच्चेति भावः । स्यादेवं यद्यनन्तशब्दो देशतः कालतो वस्तुतश्चापरिच्छिन्नत्वार्थकः स्यात् । न चैवम् । देशकालपरिच्छेदाभावमात्रार्थकत्वात् । अन्यथा परिच्छिन्नाद्भेदाभावोऽपरिच्छिन्नत्वायोगात् । कालापरिच्छिन्नेऽपि परमाण्वादौ देशपरिच्छेदेन परिच्छिन्नत्वबुद्धिवदुभयापरिच्छिन्ने गगनादौ घटादिभेदमात्रेण परिच्छिन्नत्वबुद्धेरभावाच्चेति भावेनाह । अनन्तशब्दस्येति । एतेन ब्रह्मशब्द. एव देशकालवस्तुपरिच्छेदराहित्यं ब्रुवन्मिथ्यात्वे मानमिति कस्यचि- प्रलापः प्रत्युक्तः । अभेदस्य परिच्छेदशब्दार्थत्वाभावात् । विस्तरस्तु चन्द्रिकायां द्रष्टव्यः ॥ छ ॥

Loading…