Join Tattvasudhā to study.

एकमेवेति श्रुत्यर्थविचारः

§23Mūla

तर्ह्येकमेवाद्वितीयमित्यागमोऽस्तु मानमत्रेति चेन्न । अद्वितीयपदस्य सजातीयवस्त्वन्तरनिषेधपरत्वात् । एकत्वविशेषणेनैव सजा- तीयस्य निषिद्धत्वान्नैवमिति चेन्न । तस्यैकत्वसङ्ख्याविधानपरत्वात् । एकासङ्ख्यैको भाव इत्यादिप्रयोगासम्भवो नास्मान्प्रति प्रौढिमावहति ॥ छ। एकमेवेति श्रुत्यर्थः ॥ छ ॥

ननु तर्ह्येकमेवाद्वितीयमिति श्रुतिरस्तु मिथ्यात्वे मानम् । अत्रैक- शब्देन स्वगतभेदस्यैवकारेण सजातीयजीवभेदस्याद्वितीयपदेन विजातीय- जडभेदस्य च निषेधात् । जडाभेदश्च तद्व्यतिरेकेणासत्त्वमेव । उक्तं च " वृक्षस्य स्वगतो भेद" इत्यादि । यद्वाऽद्वितीयपदेन न विद्यते द्वितीयं यस्येति द्वितीयसामान्यस्य निषेधादिति शङ्कते । तर्हीति । अत्र विश्व- मिथ्यात्व इत्यर्थः । एवमपि न त्वदभिमतसिद्धिः । द्वितीयपदस्य सजातीयपरत्वादिति भावेन सिद्धान्तयति ॥ नेति ॥ सजातीयेति । भगवत्सजातीयेत्यर्थः । न च द्वितीयशब्दस्य सजातीयद्वितीयपरत्वे सङ्कोच इति वाच्यम् । तस्य प्रकृतसमान एव द्वितीये व्युत्पन्नत्वात् । लोकेऽस्मि - न्ग्रामेऽयमद्वितीय इति स्मृतौ चैक एवाद्वितीयोऽसवाश्वमेधः क्रतुष्वप्येक एवाद्वितीयोऽसौ प्रणवो मन्त्र उच्यत इति प्रयोगात् । महाभाष्येऽन्तरान्तरेण युक्ते इत्यत्रास्य गोर्द्वितीयेन भाव्यमित्युक्ते सदृशो गौरेवोपादीयते नाश्वो न गर्दभ इत्युक्तेश्च । सङ्करभाष्ये यास्य गोर्द्वितीयोऽन्वेष्टव्य इत्युक्ते गौरेव द्वितीयोऽन्विष्यते नाश्वः पुरुषो वेत्युक्तेश्च । समे द्वितीयशब्दः स्यादिति स्मृतेश्चेति भावः । यद्येवं तर्ह्येकमेवेत्यनेन पौनरुक्त्यं स्यादिति शङ्कते ॥ एकत्वेति । अवधारणसहितेनेति शेषः । नैवमद्वितीयपदार्थोऽयं न भवती- त्यर्थः । एकमेवेत्यस्य त्वदुक्तार्थत्वे भवेदयं दोषो न त्वेतदस्तीत्याह ।। तस्येति । एकशब्दस्येत्यर्थः । तस्य सङ्ख्यार्थत्वस्य प्रसिद्धेः । महाभाष्ये ष्णान्ता षडिति सूत्रे एकशब्दोऽयं बह्वर्थ इति प्रक्रम्यास्ति सङ्ख्यार्थः । एको द्वौ बहव इत्युक्तेश्च । न च सिद्धत्वात्तद्विधानं व्यर्थम् । अप्राप्ते शास्त्रमर्थ- वदिति न्यायादिति वाच्यम् । कुसमयप्राप्तनिर्गुणत्वनिषेधादिति भावः । ननु मदुक्तार्थत्वमेकशब्दस्यानङ्गीकृत्य सङ्ख्याविधानार्थत्वे विधीयमाने एका सङ्ख्यैको भाव एकं रूपमित्यादिप्रयोगो न स्यात् । एकत्वसङ्ख्याया गुणत्वेन द्रव्यमात्रवृत्तितयाऽद्रव्यभूतसङ्ख्यादावभावादित्याशङ्क्याह एकेति । अस्मानति । सङ्ख्याया द्रव्यमात्रवृत्तित्वस्यानङ्गीकारात् । तार्कि- कपरिभाषायाश्च निर्मूलत्वस्यान्यत्रोपपादितत्वादिति भावः । तथा चोक्तं भगवत्पादैः । यथा चोलनृपः सम्राडद्वितीयोऽस्ति भूपतिः । इति तत्तुल्यनृपतिनिवारणपरं वचः । न तु तद्भ्रातृतत्पुत्रकलत्रादिनिवारणम् ।। इति । अन्यथा सर्वाभावपरत्वे कालप्रापकेण पूर्वेणाग्रपदेन तदैक्षत नामरूपे व्याकरोदितीक्षणनामरूपात्मकप्रपञ्चप्रापकेणोत्तरेण च द्वैतवाक्येन विरोधः स्यात् । किञ्च त्वया यत्किञ्चिद्भवेदिदं शब्दोदितं जगदिदं सर्वं पुरा सृष्टेरेकमेवाद्वितीयं सदेवासीदिति व्याख्यातत्वात् । सदभेदेन सत्त्वमुक्त्वा पुनरद्वितीयपदेन तन्निषेधे व्याघातः 1 न हि सदेवासीदित्यस्य सदासीदित्यर्थः । सव्यतिरेकेण नासीदित्यर्थोक्तौ तु सविशेषणे हीति न्यायेन सदात्मकत्वं स्यादिति ॥ छ ॥

Loading…