Join Tattvasudhā to study.

नेह नानेति श्रुत्यर्थविचारः

§22Mūla

नानाशब्दस्य भावप्रत्ययान्तताभावान्नेति चेन्न । मुक्तोप- सृप्यव्यपदेशादित्यादौ भावप्रत्ययाभावेऽपि तदर्थदर्शनात् ॥ छ ॥ नेह नानेति श्रुत्यर्थः ॥ छ ॥

ननु यदि नानाशब्दो भेदपरस्तदा स्यादेवम् । न चैवंम् । तस्य भिन्नवाचित्वात् । तथा च भिन्नं किञ्चन नास्तीत्येवार्थो वक्तव्यः । न च नानात्वं नेत्यर्थ इति । तस्याश्रवणादिति शङ्कते । नानेति ॥ तीति । भेदनिषेध इति शेषः । भावप्रत्ययाभावेऽपि भावप्रत्ययार्थकस्य भावप्रधान- निर्देशस्यानेकस्य दर्शनेनेहापि नानाशब्दस्यैव नानात्वार्थकत्वं भविष्यतीति भावेन सम्प्रतिपन्नं दृष्टान्तमाह । मुक्तोपसृप्येति । द्युभ्वाद्यधिकरणगुणसूत्रे मुक्तोपसृप्यत्वव्यपदेशादित्यत्रामृतस्यैष सेतुरिति वाक्यगतलिङ्गप्रतिपादनपरे मुक्तोपसृप्यत्वव्यपदेशादिति यथा यथा वा येकयोर्द्विवचनैकवचने इति पाणिनीयसूत्रे द्वित्वैकत्वयोरिति भावप्रत्ययाभावेऽपि तदर्थदर्शनं तथाऽत्रापि भावप्रत्ययाभावेऽपि नानात्वार्थकत्वलाभ इत्यर्थः । ननु मुक्तोपसृप्येत्यत्र त्वप्रत्ययार्थकत्वाभावे मुक्तोपसृप्यस्य विष्णोरेव दुभ्वाद्यायतनं विष्णुरित्यंत्र लिङ्गत्वेनोपदेशासम्भवेन बाधकेन तत्र तथात्वं येकयोरित्यत्रापि ब्येकयोर्द्वि- त्वैकत्वसङ्ख्याविशिष्टपरत्वे येकेषामिति बहुवचनापत्तेरस्तु तथात्वम् । प्रकृते तु तादृशं बाधकं नेति चेन्न । यदेवेह तदमुत्रेत्यादिपूर्ववाक्ये इदमदः शब्दार्थ- योर्भूस्वर्गयोर्विद्यमानस्य ब्रह्मण ऐक्यावेदनस्यैव भावार्थत्वाभावे बाधकत्वात् । लोके च नानाशब्दस्य पृथग्भाववाचित्वादिति कैयटोक्तेश्च । काठके तं देवाः सर्वेऽर्पितास्तदु नात्येति कश्चनेति पूर्वत्र मध्य आत्मनि तिष्ठति यथोदकं शुद्धे शुद्धमासिक्तं तागेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतमेत्युत्तरत्र च जीवपरयोर्भेदप्रमितेश्च तन्निषेधपरत्वासम्भवाच्चेति । भवितृप्राधान्येऽप्येवं योजना । इह ब्रह्मणि किञ्चन धर्मादिकं नाना भिन्नं नास्तीति । नाना- भूतगुणनिषेधे च नानात्वमेव निषिद्धं भवति । विशेषणस्य प्रथमप्राप्तत्वात् । सविशेषणे हि विधिनिषेधौ विशेष्ये बाधाद्विशेषणमुपसङ्क्रामत इति न्यायात् । लोहितोष्णीषा ऋत्विजः प्रचरन्ति दण्डी प्रैषानन्वाह न जीर्ण- मलवद्वासाः स्नातकः स्यादित्यादावुष्णीषादेर्विशेष्यस्य प्राप्ततया विधिनि- षेधयोर्विशेषणमात्रपरत्वस्य पूर्वतन्त्रे सिद्धान्तितत्वात् । अत एवोक्तं विशेष्यं नाभिदा गच्छेत्क्षीणशक्तिर्विशेषण इति । अत एव पूर्वतन्त्रे तृतीयस्याष्टमे पादे श्येनप्रकरणगते द्रुतनवनीतमाज्यं भवतीति वाक्ये आज्यस्याप्रकृतत्वान्न तदनुवादेन द्रुतनवनीतत्वं विधीयत इति प्राप्ते विशिष्टविधौ गौरवाद्गौरवस्य च दुष्टत्वादतिदेशतः प्राप्तिसम्भवात्तदनुवादेन द्रुतनवनीतत्वं विधीयत इति समर्थितम् । तस्माद्धर्मादीनामपृथक्त्वे तात्पर्यं श्रुतेः । नन्वेवमनिर्धारितैकविशेषवचनस्य किञ्चनशब्दस्य धर्मादिषु सङ्कोचः कृतः स्यादिति चेन्न । तस्य त्वयाऽपि वक्तव्यत्वात् । सर्वस्य मिथ्यात्वं बोधयदिदं वाक्यं स्वस्य स्वबोध्यार्थस्य च स्वयोग्यतादेश्व मिथ्यात्वबोधने स्वक्रिया- विरोधेन तद्व्यतिरिक्तपरत्वस्यावश्यकत्वात् । किञ्च किञ्चनशब्दस्य सर्वनाम - त्वेन प्रकृतधर्मादिपरत्वमेव युक्तम् । सर्वेभ्यः कामेभ्यो दर्शपूर्णमासावित्यत्र सर्वशब्दस्य सर्वनामतया प्रकृतपश्वादिसर्वकामपरता न पुनरप्रकृतसर्व- कामपरतेति सिद्धान्तितत्वात् । पूर्वोत्तरभेदपरवाक्यबाधाच्च सङ्कोच एव युक्त: । अतो धर्माणां प्रपञ्चस्य वा न निषेधः । किन्तु धर्माणामवताराणां च भेदनिषेध एव श्रुतेस्तात्पर्यम् । अन्यथा धर्मादेः प्रपञ्चस्य वा निषेधे नानेति व्यर्थं स्यादित्यास्तां विस्तरः ॥ छ ॥

Loading…