नेह नानेति श्रुत्यर्थविचारः
नेह नानेत्यागमोऽस्तु विश्वमिथ्यात्वे मानमिति चेन्न । तस्य ब्रह्मणि नानात्वनिषेधपरत्वात् । न ब्रह्मणि नानात्वं प्रसक्तं यन्निषेध्यत इति चेद्धन्त तथा सति त्वयाऽप्येकमेवाद्वितीयमित्यादेः स्वगत- नानात्वनिषेधपरत्वमभ्युपगतं कथं स्यात् । अखण्डवादानारम्भप्रसङ्गाच्च ।
ननु माऽस्तु मिथ्यात्वेऽनुमानम् । श्रुतिस्तु स्यात् । तथा हि । बृहदारण्यके काठके च श्रूयते नेह नानाऽस्ति किञ्चनेति । इह ब्रह्मणि प्रतिपन्नोपाधौ नाना भिन्नं किञ्चन जगन्नास्तीति सर्वाभावबोध- नादित्याशङ्क्याह ॥ नेह नानेति । कुतो नेत्याशङ्क्य तस्य भगवदवतारगुणकर्मणां भेदनिषेधपरत्वेन त्वदभिमतमिथ्यात्वपरत्वाभावादिति भावेन तस्य तात्पर्यार्थं हेतुकृत्याह ॥ तस्येति ॥ नानात्वेति ॥ स्वप्रतियोगिकस्वावतारस्वगुणकर्मादिगतेत्यर्थः । अयमर्थः । इह सगुणे नानावतारे च ब्रह्मणि किञ्चन नाना नानात्वं कोऽपि भेद इति यावत् । नास्तीति यदेवेह तदमुत्र यदमुत्र तदन्विहेति पूर्ववाक्ये इदमाद्यर्थाङ्गीकारेण तन्निष्ठब्रह्माभेदस्यैवोक्तेः । सर्वाभावपरत्वे चेदं वाऽदश्व नेति श्रूयेतेति । स्यादेतत् । भगवद्गुणादिषु यदि भेदप्राप्तिः स्यात्तदा तन्निषेधः स्यात् । न चायं प्रत्यक्षादितः प्राप्तः । अन्यथाऽप्रसक्तनिषेधापातात् । जगति च प्रत्यक्षादितो भेदः प्राप्त इति तद्विशिष्टः प्रपञ्च एव निषेध्य इति शङ्कते । न ब्रह्मणीति । यद्येवं तर्हि त्वयाऽप्येकमेवेति वाक्ये ब्रह्मणि भेदनिषेधपरत्वं न वक्तव्यं स्यात् । तथा च- योभयोः समो दोष: परिहारोऽपि वा समः । नैकः पर्यनुयोक्तव्यस्तादृगर्थविचार || इति न्यायेन त्वयैतन्न वाच्यमिति वक्तुमाह ॥ हन्त तथा सतीति । हन्त हर्षे । त्वयैव परिहारस्य वक्तव्यत्वादिति भावः || अभ्युपगतमिति । वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादिभिः । वृक्षान्तरात्सजातीयाद्विजातीयाच्छिलादितः । तथा सद्वस्तुनो भेदत्रयं प्राप्तं निवार्यते । ऐक्यावधारणद्वैतप्रतिषेधैस्त्रिभिः क्रमात् ॥ इति त्वद्वचनादित्यर्थः । अखण्डेति । वेदान्तानां निर्भेदे ब्रह्मणि तात्पर्य - वर्णनं चायुक्तं स्यात् । अखण्डत्वस्याप्रप्तेरित्यर्थः । अपि चास्ति च प्रसक्तिः । जगज्जन्मादिकारणे ब्रह्मणि गुरुतरविचित्रकार्यभेदेनान्तर्यामिणि च नियम्यानन्त्येन स्थानभेदेन च यदेकमव्यक्तमनन्तरूपमित्यनेकत्वश्रुत्या चावतारेषु च प्रतिविग्रहं प्रत्यक्षादिना भेदस्य गुणगुण्यादौ तार्किकरीत्या भेदस्य भट्टरीत्या भेदाभेदयोश्च प्राप्तेः । किञ्च नेह नानेत्यस्य पूर्ववाक्ये बृहदारण्यके तस्मिन् शुक्लमुत नीलमाहुः । पिङ्गलं हरितं लोहितमित्यादिना भगवतोऽनेकरूपाणि यस्यानुवित्तः प्रतिबुद्ध आत्माऽस्मिन्सन्दोहे गहने प्रविष्ट इत्यादिना धर्माः । काठके च पूर्ववाक्ये गुहां प्रविश्य तिष्ठन्ती या भूतेभिर्व्यजायतेत्यनेकावतारा महान्तं विभूमात्मानमित्यादिनाऽनेके धर्मा चोक्ता इति कथं तदप्रसक्तिः । दृष्टश्चैकस्मिन्वृक्षे पत्रशाखादिवत्प्रसक्तस्य स्वगत- भेदस्य एको देवः सर्वभूतेषु गूढ इत्यादिश्रुतौ - ब्रह्मादयो हि भूतानि तेषामन्तर्गतो हरिः । समः स सर्वभूतेषु य एवं वेद तत्त्ववित् ।। इति भारते च निषेध इति ध्येयम् ।