Join Tattvasudhā to study.

सत्यत्वहेतूनां प्रतिकूलतर्कोद्धारः

§21Mūla

ननु सत्यत्वे प्रपञ्चो ब्रह्मणो भिन्नोऽभिन्नो भिन्नाभिन्नो भिन्नाभिन्नविलक्षणो वा । आद्ये भेदपरम्परयाऽनवस्था । द्वितीयेऽपसिद्धान्तः । तृतीये व्याघातः । चतुर्थेऽनिर्वाच्यतेति चेन्न । भेदस्य स्वरूपत्वेनानवस्थाया अभावात् । किञ्चैवं सति ब्रह्मण्यपि प्रपञ्चाद्भिन्नमभिन्नं वेत्यादिदोषाः समा एव ॥ छ ॥ सत्यत्वहेतूनां प्रतिकूलतर्कोद्धारः ॥ छ ॥

ननु यथा मिथ्यात्वहेतूनां प्रतिकूलतर्कपराहतत्वान्न साध्यसाधकता तथा विमतं सत्यं प्रमाणदृष्टत्वादित्यादिसत्यत्वहेतूनामपि । तथा च सत्यत्वमपि न सिध्येदिति भावेन शङ्कते । नन्विति । यद्यपीयं शङ्का सत्य - त्वहेतुत्रयानन्तरमेव कर्तुमुचिता । तथाऽपि मिथ्यात्वहेतूनामनुकूलतर्कहीन- त्वमसिद्धमस्यैव तर्कस्यानुकूलतर्कत्वादित्याशङ्काया अप्यत्र निराकार्यत्वादत्रो - पन्यस्तेति ध्येयम् ॥ अनवस्थेति । ब्रह्मभेदः प्रपञ्चे ब्रह्मणो भिन्ने वा स्यादभिन्ने वा । नान्त्यः । विरोधात् । आद्ये सोsपि भेद उक्तरीत्या भिन्न एवेत्यनेकभेदपरम्परयाऽनवस्थेत्यर्थः । अपसिद्धान्त इति । सत्यत्ववादि- नाऽनङ्गीकारादित्यर्थः । व्याघात इति । भेदाभेदयोर्विरोधादेकत्रैकदा व्याघात इत्यर्थः ।। अनिर्वाच्यतेति । चतुर्थप्रकारस्यैवानिर्वाच्यत्वादिति भावः । इदमुक्तं भवति । यदि प्रपञ्चः सत्यः स्यात्तदा भिन्नाद्यन्यतमः स्यात् । न च तथाऽङ्गीकर्तुं शक्यते । तस्मान्न सत्य इति । तत्राद्यपक्षाङ्गीकारेणापाद- कस्यान्यथोपपत्तिमाह || भेदस्येति । स्वरूपत्वं च समर्थयिष्यत इति भावः । स्वव्याहतत्वाच्च तर्काभासोऽयमित्याह । किञ्चेति । यदि ब्रह्म प्रपञ्चाद्भिन्नं तर्हि स च भेदो भिन्ने वा ब्रह्मण्यभिन्ने वा । नान्त्यः । विरोधात् । आद्ये सोऽपि भेदो भिन्न एवेत्यनवस्था । मिथ्याभूतेन जगता ब्रह्माभिन्नं चेत्तर्हि मिथ्या स्यात् । तथा चापसिद्धान्तः । यदि भिन्नाभिन्नं तर्हि व्याघातः । यदि भिन्नाभिन्नविलक्षणं तर्हि ब्रह्मानिर्वाच्यमित्यादिविकल्प्योच्यमाना दोषा इत्यर्थः। तत्सत्यमित्यादिप्रमाणं ब्रह्मणः सत्यत्वमवधारयदुक्तदोषानाभा- सीकरिष्यतीति चेत्प्रपञ्चसत्यताप्रमाणमपि किन्न दोषानाभासीकुर्यात् । ननु पुराणादावात्मान्येष्वसत्स्वपि 1 अविद्यमानो ह्यवभाति हि द्वय इत्यादावसत्यत्वं श्रूयत इति चेत्तर्ह्यसद्वा इदमग्र आसीन्न सत्तन्नासदुच्यत इत्यादावसत्त्वमपि श्रूयत इति समम् । अर्थान्तरत्वं चोभयत्र समम् । एतदेवाह । समा एवेत्यवधारणेन ॥ छ ॥

Loading…