Join Tattvasudhā to study.

मिथ्यात्वहेतूनामप्रयोजकत्वम्

§20Mūla

न च तदनिरूपणम् । ज्ञानजन्यफलाधारत्वलक्षणं तत्तत्प्रतीतियोग्यत्वं विषयत्वमस्त्विति चेत्तत्फलं ज्ञातता व्यवहारो वा । नाद्यः । अतीतादौ तदसम्भवेनाविषयत्वापत्तेः । न द्वितीयः । गगना- दावभावादिति । मैवम् । अतीतादौ ज्ञातताऽभ्युपगमे विरोधाभावात् । अन्यथा तद्व्यवहारायोगात् । अतीतादावनुगतविषयत्वं नास्तीति चेत्प्रतिनियतमेवास्तु । व्यवहारोऽपि तत्तद्योग्यमेव ज्ञानजन्यफलं किन्न स्यात् । तस्मान्नानुमानं विश्वमिथ्यात्वे मानम् ॥ छ ॥ मिथ्यात्व- हेतूनामप्रयोजकत्वम् ॥ छ ॥

चतुर्थं शङ्कते ॥ न चेति । लक्षणवत्तयेति शेषः । ननु तत्तत्प्रतीतियोग्यत्वमेव विषयत्वमस्त्वित्याशङ्क्य तत्स्वरूपमेव विवेचयन्पूर्व- पक्षं निषेधति ।। ज्ञानेति । नास्तीति । अयम्भावः । फलं ज्ञातता । तस्याः सर्वत्राभावेनातीतादेरतीन्द्रियस्य च विषयता न स्यात् । नापि व्यवहारः । आदानादिकस्य गगनादावभावात् । अभिलपनस्य करणपाटवाद्यभावेन यत्रा- भावस्तत्राविषयत्वप्रसङ्गादिति । तत्र ज्ञाततापक्षे तावदुत्तरमाह । प्रतिनियतमिति । विषयत्वमित्यनुवर्तते । यत्र ज्ञातता तत्र तदाधारत्वमन्यत्रान्यदेवास्त्वित्यर्थः । द्वितीय आह || व्यवहारोऽपीति । यत्र यत्सम्भवति तत्र तदेव व्यवहारशब्देन विवक्ष्यतां न तु सर्वत्रैकरूप्यमित्यर्थः । वस्तुतस्तु यज्ज्ञानं यदभिलपनव्यवहारकारणं स तस्य विषयः । क्वचित्पाटवाद्यभावेन व्यवहारानुदयेऽपि सहकारिवैकल्यप्रयुक्त- कार्याभाववत्त्वरूपं कारणत्वमस्त्येव | कदाऽपि व्यवहाराजनकं तु निर्विकल्पकं नोपेयत इति नाव्याप्तिः । यत्त्वतत्त्वजात्योरभावेनाननुगमः । कस्य को विषय इति प्रश्नेऽस्यायं विषय इत्यननुगतस्यैव वक्तव्यत्वात् । घटज्ञानानन्तरं प्रामादिके पट इति व्यवहारे न घटज्ञानं हेतुरिति नातिव्याप्तिरिति । । एवं दृश्यत्वादिहेतून् सविस्तरं दूषयित्वाऽन्येऽपि मिथ्यात्वहेतवोऽनेनैव न्यायेन दूषणीया इत्याशयवानुपसंहरति । तस्मादिति । असिद्धत्वादिसर्वहेत्वाभासदुष्टत्वात्प्रतिकूलतर्क पराहतत्वादनुकूलतर्कहीनत्वा- च्चेत्यर्थः ।। छ ।।

Loading…