मिथ्यात्वहेतूनामप्रयोजकत्वम्
न द्वितीयः । करणसामर्थ्येन विषयविषयिभावोपपत्तेः । किञ्चाध्यस्तत्वेन प्रकाशने जीवेऽध्यासपक्षे सर्वदा प्रकाशः स्यात् । ब्रह्मण्य- ध्यासे न कदाचित् । बहुजीवपक्षेऽपि जीवेऽध्यासे सर्वदा सर्वेषां प्रपञ्चः प्रकाशेत । ब्रह्माधिष्ठानत्वे तु न कस्यापि कदापि । तथापि सत्यत्वे दृश्यत्वं न युज्यते । दृग्दृश्ययोः संसर्गानिरूपणादिति चेन्न । संयोगासम्भवे समवायवदन्यस्यापि तयोरसम्भवे कल्प्यत्वात् । विषयविषयिभावस्य सम्भवात् ।
वृत्तिर्वेति द्वितीयं पक्षं निराह । न द्वितीय इति । आध्यासिक- वृत्तेरर्थप्रकाशकत्वोप- सम्बन्धाभावेऽपि विषयविषयिभावरूपसम्बन्धेनैव पत्तेरित्यर्थः । नन्वान्तरस्य वृत्तिरूपस्य बाह्यघटादिसम्बन्धः कथं स्यात् । तथात्वे सर्वेणापि सम्बन्धः स्यादविशेषादित्यत उक्तं करणसामर्थ्यादिति त्वयाऽपि प्रतिकर्मव्यवस्थासिद्ध्यर्थं तत्तत्सन्निकृष्टकरणजन्यतदाकारवृत्ति- द्वारकसम्बन्धस्यावश्यं वक्तव्यत्वादिति भावः । करणसन्निकर्षादिकं नियामकं त्वयाऽप्यवश्यं वाच्यम् । अन्यथाऽतिप्रसङ्गः स्यादिति भावेनाध्या- सिकसम्बन्धपक्षे बाधकमाह । किञ्चेति । ऐक्यवादिनो हि द्विविधाः । एकजीववादिनो बहुजीववादिनश्चेति । एक एव ब्रह्म प्रतिबिम्बभूतो जीवोऽन्ये जीवा जड़वत्स्वरूपेणैव कल्पिता यथा स्वप्न इत्येकजीववादिमतम् । बहुजीववादिनां तु मुखमिव दर्पणेष्वनेकाविद्यासु प्रतिबिम्बितं ब्रह्मानेकजीव- भावमापद्यत इति तत्र भेदमात्रमसत्यं जीवास्त्वनन्ताः स्वरूपेण सत्या एवेति । मतद्वयेऽपि शुद्धं ब्रह्म जगदुपादानभूताविद्याधिष्ठानमिति । तद्वयेऽपि जगदारोपाधिष्ठानं जीवो वा ब्रह्म वेति विकल्प्यैकजीवपक्षे प्रथमतो दोषमाह || जीव इति । तस्य सर्वदाऽहमिति भासमानत्वेन तत्राध्यस्तत्वे सर्वदा प्रपञ्चभानापत्तेरित्यर्थः । उपलक्षणमेतत् । तस्य विशिष्टस्य कल्पितत्वेनाधि- ष्ठानत्वायोगाच्चेत्यपि बोध्यम् || ब्रह्मणीति । तस्यासंसारमज्ञानावृतत्वेनाधिष्ठान प्रकाशभूतस्याध्यस्तस्फुरणोपायस्याभावादिति भावः । बहुजीवपक्षेऽप्याह || बहुजीवेति । सर्वदेति । तस्याप्यावृतत्वे न कदाचित्प्रकाशः स्यादिति ध्येयम् । न च मतद्वयेऽपि ब्रह्माध्यासपक्षेऽन- वच्छिन्नस्यावृतत्वेऽपि घटाद्यवच्छिन्नं तत्तदाकारवृत्त्याऽभिव्यक्तं सत्तदर्थ - प्रकाशकं भवतीति वाच्यम् । अवच्छिन्नस्य कल्पितत्वेनात्माश्रयापातेन घटाद्यनधिष्ठानत्वेनाध्यासिकसम्बन्धस्यातन्त्रत्वापातात् । विशिष्टज्ञानेऽधि- कप्रकाशेऽपि चरमवृत्तिविषयस्य विशेष्यस्यापि प्रकाशेन चरमवृत्तिवैयर्थ्याच्च । किञ्च घटाद्यधिष्ठानब्रह्मचैतन्यावरणाभिभवार्थमावश्यकवृत्त्यैव घटप्रकाशोपपत्तौ किं चैतन्यविषयत्वकल्पनाव्यसनेन । न च जीवाध्यासपक्षे तत्तदिन्द्रि- यसन्निकर्षादिकं नियामकमतो नाव्यवस्थेति चेत्तर्हि किमनेनारोपितत्व- दुर्व्यसनेन । सत्यस्यैव दृश्यस्य वृत्तिरूपया दृशा करणसम्बन्धनिबन्धनस्य विषयविषयिभावस्योपपत्तेरिति न सत्यत्वे बाधकं किञ्चित्पश्याम इति भावः । ननु यदुक्तं वृत्तिविषयत्वेनैव व्यवहाराद्युपपत्तिरिति तदयुक्तम् । वृत्तेर्दृश्यस्य च सम्बन्धस्यैव दुर्निरूपत्वात् । तथा चाध्यासिकस्यैव सम्बन्धस्य वक्तव्यत्वादिति भावेन शङ्कते ॥ तथाऽपीति । वृत्तिविषयत्वेऽपीत्यर्थः । वृत्तिरत्र दृक्शब्देनोच्यते ॥ संसर्गानिरूपणादिति । अयमाशयः । न तावद्दृग्दृश्ययोः संयोगो द्रव्ययोरेव संयोगात् । दृशश्चाद्रव्यत्वात् । द्रव्यत्वेऽपि गुणकर्मादिभिः संयोगस्यासम्भवात् । नापि समवायः । दृश आत्मैकगुणत्वेन वाऽन्तःकरणधर्मत्वेन वा घटादिना तदयोगात् । न चार्थाज्ञाने समवेता: । बाह्यत्वात् । अतद्गुणतयैव प्रतीयमानत्वाच्च । न तादात्म्यमपि । विरुद्धयोर्दृग्दृश्ययोरसम्भवात् । विषयविषयिभावमपि न तत्त्वतो जानीमः । न तावज्ज्ञानजन्यफलाधारत्वं विषयत्वम् । फलं ज्ञातता व्यवहारो वा । नाद्यः । अतीतादेरविषयत्वापातात् । नान्त्य: । अतदर्थिनो व्यवहारानुत्पत्ता- वविषयत्वप्रसङ्गात् । नापि व्यवहारयोग्यत्वम् । योग्यतायां तदभ्युप- गमेऽनवस्था । तदनभ्युपगमे च तस्याविषयत्वप्रसङ्गात् । यत्सन्निकृष्टकरणेन यज्ज्ञानमुत्पद्यते स तस्य विषय इति चेन्न । रूपादिज्ञानस्याकाशादि- विषयत्वापातात् । नित्यज्ञानस्य निर्विषयत्वापाताच्च । किञ्च विषयविषयि- भावस्याद्विष्ठत्वेन मुख्यसम्बन्धत्वाभावाच्चेति ।। समवायवदिति । गुणगुण्या- देरिति शेषः । तयोरयुतसिद्धत्वेन युतसिद्धसम्बन्धस्य संयोगस्यायोगे समवायः सम्बन्धत्वेन कल्प्यते । तद्वज्ज्ञानज्ञेययोस्तयोरयोगेऽप्यन्यः सम्बन्धः कल्प्यतामित्यर्थः । ननु संयोगसमवाययोः प्रामाणिकत्वेन तत्परिकल्पनेऽपि न तदन्यः कल्प्यते । मानाभावादिति चेन्न । नियतव्यवहाररूपकार्यान्वयव्यतिरेक- सिद्धत्वात् । ज्ञातो घट दृष्टो घट इत्यादिका धी: परस्परासंयुक्तासमवेत- विशेषणविशेष्यसम्बन्धविषयिका | विशिष्टधीत्वात् 1 दण्डीत विशिष्टधीवदित्याद्यनुमानेन च तत्सिद्धेरिति भावः । ननु तथाऽपि कोऽसौ सम्बन्ध इति चेन्न । कोऽसाविति किं तत्र प्रमाणमिति प्रश्न उत संयोगादौ कुत्रान्तर्भाव इति । यद्वा संज्ञाविशेषः क इति अथ किं तस्य लक्षणमिति । नाद्यः । प्रमाणस्योपन्यस्तत्वात् । द्वितीये न क्वचिदिति । सन्ति चैकशतं षष्ठयर्थाः । यथोक्तं महाभाष्ये षष्ठीस्थाने योगेत्यत्र नियमार्थोऽयमारम्भः । एकशतं षष्ठ्यर्थाः सन्त्येते सर्वे षष्ठ्यामुच्चारितायां प्राप्नुवन्तीति । एतमन्तरेणापि सामान्यत एव व्यवहारसिद्धेः किं तद्विशेषविचारक्लेशेन । किञ्चास्ति च विशेषसंज्ञेत्याह । विषयेति । विषयविषयिभावनामकस्य सम्भवादित्यर्थः ।