मिथ्यात्वहेतूनामप्रयोजकत्वम्
किञ्च जगतो मिथ्यात्वाभावे न बाधकं पश्यामः । सत्यत्वे कथं प्रकाशेत । न तावत्स्वतः । जडत्वात् । नापि परतः । प्रकाशान्तरेण सम्बन्धाभावात् । असम्बद्धस्य प्रकाशनेऽतिप्रसङ्गात् । असत्त्वे तु चित्प्रकाशारोपितस्याधिष्ठानाध्यस्तत्वसम्बन्धेन प्रकाशोपपत्तिरिति चेन्न । विचारागोचरत्वात् । तथा हि । कथं प्रकाशेतेति कोऽर्थः । कथं प्रकाशः स्यादिति वा कथं प्रकाशाश्रय इति वा कथं प्रकाशविषय इति वा । न प्रथमद्वितीयौ । अनभ्युपगमात् । तृतीयेऽपि किं प्रकाशशब्देन चैतन्यं विवक्षितं वृत्तिर्वा । नाद्यः | चैतन्याविषयत्वेऽपि बाधकाभावात् । वृत्तिविषयत्वेनैव व्यवहारोपपत्तेः । चैतन्यस्यापि स्वाभाविकं भविष्यतीति व्यवहारोपपत्तेः । चैतन्यस्यापि स्वाभाविकं भविष्यतीति को दोषः । असङ्गश्रुतिस्तु परमेश्वरस्य पापादिसम्बन्धाभाववादिनी ।
एवं मिथ्यात्वहेतूनां बाधादिदोषानभिधायाधुनाऽनुकूलतर्का- भावान्मिथ्यात्व हेतवः सर्वेऽप्रयोजका इति वक्तुं प्रतिजानीते । किञ्चेति । दृशत्वमस्तु मिथात्वं मास्तु एवं सति न किञ्चिद्वाधकं पश्याम इत्यर्थः । ननु मिथ्यात्वं विना दृश्यत्वमेवानुपपन्नम् । दृश्यत्वं हि दृक्प्रकाश्यत्वम् । न च दृशोऽसङ्गभूताया दृश्येन सम्बन्धोऽस्ति । तस्मादृशो दृश्येनाधिष्ठा- नाध्यस्तभावलक्षणः सम्बन्धोऽभ्युपेय इति दृगदृश्ययोः सम्बन्धानुपपत्तिरेव विपक्षे बाधकस्तर्क इत्यभिप्रायेण शङ्कते ॥ सत्यत्व इति । कथं न कथमपीत्यर्थः । तदेव विविच्याह ॥ न तावदिति ।। जडत्वादिति । अप्रकाशात्मकस्य जडस्य प्रकाशत्वमेव दुर्लभं स्वप्रकाशत्वं तु दूरापेतमिति भाव: । परेण प्रकाशत इत्यत्रापि स्वसम्बन्धेनोतासम्बन्धेन । आद्य आह || प्रकाशान्तरेति । स्वस्माद्भिन्नदृग्रूपेणेत्यर्थः । असङ्गो ह्ययं पुरुष इति श्रुत्या दृशोऽसङ्गत्वश्रवणादिति भावः । द्वितीय आह ।। असम्बद्धस्येति । सर्वदा सकलपदार्थप्रकाशः स्यादित्यर्थः । एवं सत्यत्वे प्रकाशानुपपत्तिमुक्त्वा मिथ्यात्वे तदुपपत्तिमाह । असत्त्वे त्विति । मिथ्यात्व इत्यर्थः ।। चिदिति । चिद्रूपप्रकाशारोपितस्येत्यर्थः । चितोऽधिष्ठानत्वं दृश्यस्याध्यस्तत्वमित्यर्थः । असङ्गश्रुतेस्तात्त्विकसम्बन्धाभावपरत्वादतो मिथ्यात्वमुपेयमिति भावः / एवमनूदितं पूर्वपक्षं प्रतिक्षिपति ।। विचारेति । प्रकाशः प्रकाशात्मकः स्यादित्यर्थः । प्रकाशाश्रय इति । समवायसम्बन्धेनेत्यर्थः ॥ अनभ्युप- गमादिति । वादिप्रतिवादिभ्यामित्यर्थः । वृत्तिरिति । अन्तःकरण- वृत्तिरित्यर्थः । यद्यपि परेण चैतन्याभिप्रायेणैव प्रकाशशब्दः प्रयुक्तस्तथाऽपि वृत्तेरपि प्रकाशशब्दार्थत्वात्तयाऽप्युपपत्तिं वक्तुं वृत्तिर्वेत्युक्तमिति ध्येयम् । तत्तदीयव्यवहारानुपपत्तिरेव चिदविषयत्वे बाधिकेत्यत आह || वृत्तीति । ननु घटादेश्चैतन्याविषयत्वे घटोऽपरोक्ष इति घटादावापरोक्ष्यव्यवहारो न स्यात् । अपरोक्षत्वस्य चिन्मात्रगतत्वात् । तथा च बाधकाभावोऽसिद्ध एवेति चेन्न । इच्छादिवृत्त्यनिष्ठेन परोक्षवृत्तिगेन ज्ञानत्वरूपविशेषेण विषयस्य ज्ञातत्वव्यवहारस्येव स्मृत्याद्यनिष्ठेनानुभवादिगतेनानुभवत्वादिरूपविशेषेण तद्विषयत्वस्यानुभूतत्वव्यवहारस्येव च चैतन्याविषयस्यापि घटादेरिन्द्रिय- जन्यत्वप्रयुक्तेन वृत्तिगतेन साक्षात्कारत्वरूपविशेषेणैवापरोक्ष व्यवहार- स्याप्युपपत्तेः । न च वृत्तौ परोक्षत्वमेवापरोक्षत्वं तु चैतन्य एवेति युक्तम् । परोक्षत्वापरोक्षत्वयोरेकज्ञानत्वव्याप्यत्वप्रसिद्धिपरिलोपापातात् ।। एतदप्युक्तं वृत्तीति । अपरोक्षवृत्तीत्यर्थः । व्यवहारेति । अपरोक्षव्यवहारेत्यर्थः । न चाज्ञानव्यवहारेऽपरोक्षचिद्विषयत्वम् । त्वन्मते वृत्तेरेवाज्ञानविरोधित्वात् । चितस्तु तत्साधकत्वेन तद्बाधकत्वायोगाच्च । न च घटं जानामीति सकर्मकज्ञानवृत्त्यन्यो घटः प्रकाशते । घटः स्फुरतीत्यकर्मकप्रकाशरूपा चिदनुभवसिद्धेति वाच्यम् । जानाति प्रकाशत इति क्रिययोरेकार्थकत्वेऽपि करोति प्रयतते गच्छति चलतीत्यादाविव धात्वोः कर्मोपरागवाचित्वतद- भावस्वभावत्वोपपत्तेः । अन्यथा त्वत्पक्षे परिणतेरकर्मकत्वात्परिणतिविशेषस्य वृत्तेः सकर्मकज्ञानत्वं न स्यात् । अतीतचैतन्यसम्बन्धानङ्गीकारेणातीतो घटः प्रकाशत इति धीश्च न स्यादिति । एतदप्याह || वृत्तीति ॥ व्यवहारेति । घटः प्रकाशत इत्यादिव्यवहारेत्यर्थः । ननु " तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाती 'ति श्रुत्या सर्वस्य दृश्यस्य दृक्प्रकाशत्वं श्रूयत इति विरोध एव चैतन्याविषयत्वे बाधक इति चेन्मैवं वादीः । अस्याः श्रुतेः सूर्यादिप्रकाशस्येशाधीनत्वपरत्वस्यानु- कृतेस्तस्य चेत्यधिकरणभाष्यादावेव स्पष्टत्वात् । एतद्वाक्यनिर्णायके अपि स्मर्यत इति सूत्रे त्वद्भाष्येऽपि यदादित्यगतं तेज इत्यादिस्मृतेरेवोदाहृतत्वे- नास्मदादिगतघटज्ञानस्य चैतन्यरूपताऽप्रसक्तेः । अन्यथा त्वन्मते ब्रह्मणो भानमात्रत्वेन भान्तमिति कर्तरि विहितक्तप्रत्ययस्य तस्य भासेति षष्ठ्याः प्रपञ्चे ब्रह्मभानान्यभानाभावेनानुशब्दस्य चायोगाच्च । गच्छन्तमनुगच्छतीत्यादौ गमनादिभेदे सत्येवानुशब्दस्य दर्शनादिति । एवं चैतन्याविषयत्वे बाधकाभावमुपपाद्येदानीं चैतन्यविषयत्वमभ्युपेत्यापि समाधत्ते ।। चैतन्य- स्यापीति । सुखदु:खाकाशादौ चैतन्यविषयत्वस्य सिद्धान्तेऽप्यङ्गीकारा - दयमप्यभ्युगम इति ध्येयम् ।। स्वाभाविकमिति । अर्थप्रकाशकत्वमिति शेषः । स्वरूपसम्बन्धकृतं न त्वधिष्ठानाध्यस्तत्वरूपाध्यासिकसम्बन्धकृतमित्यर्थः । नन्वसङ्गो ह्ययं पुरुष इति श्रुतिपीडनमेव दोष इत्यत आह ।। असङ्गेति । स यत्तत्र यत्किञ्चित्पश्यत्यनन्वागतस्तेन भवतीति पूर्ववाक्यात् यथाऽऽकाश- स्थितो नित्यं वायुः सर्वत्रगो महानित्यादिस्मृतेः । अन्यथाऽसङ्गो ह्ययं पुरुष इति वाक्यबोध्यासङ्गत्वान्वयस्य भावाभावाभ्यां व्याघातादिति भावः ।