Join Tattvasudhā to study.

अंशित्वानुमाननिरासः

§19Mūla

अथ तत्रागमविरोधस्तर्ह्यरूपित्वमपि तस्यागमसिद्धमेव । नानुमानादिति । तस्मात्कालातीत्ततादोषं क्वचित्स्वीकुर्वताऽत्रापि समानन्यायतया सा चाभ्युपेयैव ॥ छ ॥ अंशित्वानुमाननिरासः ॥ छ ॥

ननु श्रुतिपुराणादिष्वाकाशस्य शब्दगुणकत्वं प्रसिद्धमिति तद्विरोधोऽशब्दगुणकत्वसाधकानुमानस्येत्याशङ्क्य तुल्यमित्याह ।। अथेति ।। अरूपित्वमिति । यल्लोहितं तेजसो यच्छुक्कं तदपां यत्कृष्णं तदन्नस्येति रूपस्य पृथिव्यादित्रितयगतत्वस्यैवोक्तेरिति भावः । एवमुपपादितं प्रत्यक्षविरोध- मुपसंहरति ॥ तस्मादिति । प्रत्यक्षस्यानुमानबाध्यत्वासम्भवादित्यर्थः । अत्राप्यंशित्वानुमानेऽपीत्यर्थः । सा कालातीतेत्यर्थः । तेनायं पटात्यन्ताभाव एतत्तन्तुनिष्ठ एतत्पटानाद्यभावत्वात् । एतत्पटप्रागभाववदित्यादीनि नवीनानु- मानानि प्रत्याख्यातानि बोध्यानि । प्रत्यक्षबाधादिदोषस्य सर्वत्र प्रसरादिति ॥

Loading…