Join Tattvasudhā to study.

अंशित्वानुमाननिरासः

§19Mūla

नन्विह नभसि नीलिमेति प्रत्यक्षाभिमतप्रत्ययबाधे- नारूपित्वानुमानप्रवृत्तिवदत्राप्यनुमान प्रवृत्त्युपपत्तिः किन्न स्यादिति चेन्न । तथा सति दहनशैत्यानुमानादेरप्यप्रतिबद्धप्रसरेण बाधपरिभाषापरिमोषा- पातात् । उभयवादिसम्प्रतिपन्नप्रामाण्ये प्रत्यक्षादौ जाग्रति बाधः सुखं प्रसरेदिति चेत्तत्किं प्रकृते प्रत्यक्षप्रामाण्यानभ्युपगमे कारणम् । अनुमान- विरोध इति चेत्समं दहनशैत्यानुमानेऽपि । न च प्रत्यक्षस्यानुमानबाधितत्वे दृष्टान्तं पश्यामः । नभोनीलिमाप्रतीतिभ्रमताऽप्यागमाद्यवगम्यैव । अनुमान- स्याप्रसरात् । तथा हि । महत्त्वान्नभसो रूपं निषिध्यतेऽगन्धवत्त्वाद्वा स्पर्शरहितत्वाद्वा । न त्रयमपि । तत एवाशब्दत्वप्रसङ्गात् ।

ननु न प्रत्यक्षमनुमानबाधकं नभोनीलमित्यक्ष बाधेनारूपित्वानु- मापकामूर्तत्वाद्यनुमानस्येवात्राप्यक्षबाधेनैवानुमानागम प्रवृत्तिसम्भवादित्या- शङ्क्यातिप्रसङ्गमुत्तरयति ।। नन्विह नभसीत्यादिना ।। प्रत्यक्षे । प्रत्यक्षत्वेनाभिमतो यस्तद्बाधेनारूपित्वसाध्यकानुमानप्रवृत्तिवदित्यर्थः || अप्रतिबद्धेति । प्रत्यक्षाप्रतिबद्धप्रवृत्त्या बाधवार्ताया अपन्हवः स्यात् । बाधोच्छेद इति यावत् । यद्यपीदं प्रागेवाशङ्क्य समाहितम् । तथाऽप्यधिकं विवृण्वन्पुनरेतदवतारितमित्यदोषः । ननु वन्ह्यौष्ण्यप्रत्यक्षप्रामाण्ये च वादिप्रतिवादिसम्मतेः सत्त्वात्तत्र बाधसम्भवेऽपि नेह तथा । इह तन्तुषु पट इति प्रत्यक्षे मम प्रामाण्यासम्मतेरिति तत्त्वप्रदीपोक्तामाशङ्कां प्रति हेतुमनुवदति ।। उभयेति । तत्किमित्याक्षेपे न किमपीत्यर्थः । तथा च न दृष्टान्तदाष्टन्तिकयोर्वैषम्यमिति भाव: । तत्र कारणमाशङ्क्य तदपि सम्मतमेवेत्याह ।। अनुमानेति । अंशित्वानुमानेत्यर्थः । सममिति । अनुमानविरोधलक्षणं कारणमित्यर्थः । अभ्युपेत्यैवमुदितं वस्तुतस्त्वनुमानबाधितं प्रत्यक्षमेव नास्ति । येन तदृष्टान्तेनेह तन्तुषु पट इति प्रत्यक्षस्यानुमानबाधसम्भावनाऽपि स्यादित्याह || न चेति । किञ्चेति चार्थः । दृष्टान्तं चेति वाऽन्वयः । ननूक्तं नभोनैल्यप्रत्यक्षमिति तत्राह । नभ इति । आगमेति तर्काबाध्यत्वे तात्पर्यम् । न त्वागमेनापि तत्र बाधः । तथात्वेऽद्वैतानुमानेन बाधाभावेऽप्यद्वैतागमेन तस्य बाधसम्भवेन पराभिमतसिद्ध्यापातात् । अत एवादिपदप्रयोगः । तथा चायमर्थः । न तंत्रागमेन बाधः । किन्तु मूलभूतप्रत्यक्षेणैव बाधः । यथा चैतत्तथोक्तं प्राक् । विस्तरस्तु न्यायामृते द्रष्टव्यः । एवकारव्यावर्त्यमाह || अनुमानस्येति । महत्त्वात्परममहत्त्वादित्यर्थः ।। अगन्धेति । गन्धरसरूप- स्पर्शान्यतमवत्त्वाभावादित्यर्थः पृथिव्यादिचतुष्टयान्यतमत्वाभावादिति यावत्। यद्वा नीलरूपाभावलक्षणसाध्याभिप्रायेण यथाश्रुत एवागन्धवत्त्वादिति हेतुः साधुः ।। तत एवेति । उक्तहेतुत्रयान्यतमादित्यर्थः । इदमुपलक्षणम् । अद्वैतिमते नभसो जन्यत्वेनाद्यहेतोरसिद्धिश्च बोध्या । एतेनामूर्तत्वान्त्यावय विभिन्नानारम्भकत्वादिकमिह हेतुरिति प्रत्युक्तम् । । असिद्धेः अशब्दगुणकत्वसाधनसम्भवाच्चेति ।

Loading…