Join Tattvasudhā to study.

अंशित्वानुमाननिरासः

§19Mūla

किञ्च किमत्र पटस्यासत्त्वमापाद्यते संसर्गनिषेधो वा क्रियते । नाद्यः त्वद्दर्शनविरोधात् । सत्त्वमात्रं निषिध्यते नासत्त्वमापाद्यत इति चेन्न । तन्निषेधे तद्ध्रौव्यात् । सत्त्वनिषेधे चैतत्तन्तुनिष्ठपदवैय्यर्थ्यम् । न च सिद्धसाधनतापरिहारार्थं विशेषणमिति वक्तव्यम् । एतत्पटात्यन्ता- भावस्यास्माकमसिद्धेः । एतेन दृष्टान्तोऽपि साध्यविकलतया प्रत्युक्तो वेदितव्यः । ननु पटान्तरस्यात्यन्ताभावो न चेत्पटः किन्न स्यात् । किमत्र पटसंसर्गः स्यात्पटो वा । आद्ये न व्याप्तिसिद्धिः । द्वितीये सिद्धसाधनम् । नाप्युत्तरः । तन्तुपटसंसर्गाभावस्य सिद्धत्वात् । अथायं पट एतत्तन्तुजन्यो न भवतीति प्रतिज्ञावाक्यार्थः स्यात्तर्हि तस्यांशित्वमपि न स्यादिति हेतोरसिद्धिः स्यात् । न तत्त्वतस्तदप्यस्तीति चेन्न । अतात्त्विकावयवित्वस्यास्माकमसिद्धेः । इह तन्तुषु पट इत्यादिप्रत्यक्षविरुद्धं चैतत् ।

अंशित्वानुमानस्य तर्कपराहतिं च वक्तुं पूर्ववदेवसाध्यं विकल्पयति ॥ किञ्चेति । तर्कपराहतत्वप्रतिपादनपरत्वान्नपौनरुक्त्यमिति बोध्यम् ॥ संसर्गेति । आधाराधेयभावलक्षणेत्यर्थः ।। त्त्वद्दर्शनविरोधादिति । त्वयाऽपि पटादेर्व्यावहारिकत्वरूपसत्त्वाभ्युपगमेनासत्त्वेऽभिधीयमानेऽपसिद्धान्त इत्यर्थः । ननु नापसिद्धान्तः । मया प्रपञ्चस्य सदसद्वैलक्षण्याभ्युपगमेन सत्त्वमात्रस्य निषेधे दोषाभावादिति शङ्कते ॥ सत्त्वेति । मात्रपदव्यावर्त्यमाह ॥ नासत्त्वमिति । तन्निषेध इति । सत्त्वनिषेधेऽसत्त्वस्य ध्रुवत्वादिति भावः । सत्त्वासत्त्वयोर्भावाभावरूपत्वात् । परस्परविरहव्याप्यत्वस्य वा समर्थितत्वा- दिति भावः । किञ्च यदि पटस्य सत्त्वनिषेध एवात्यन्ताभावप्रतियोगित्वपदेनाभिमतस्तर्हि पटात्यन्ताभावप्रतियोगीत्येतावतैवेष्टसिद्धेरेतत्तन्तुनिष्ठेति व्यर्थमित्याह || सत्त्वेति । किञ्चेति चार्थः । ननु तार्किकमतेऽस्य पटस्य तन्त्वन्तरनिष्ठात्यन्ता भावप्रतियोगितोपगमात्सिद्धसाधनता निवृत्त्यैतदुपात्तमित्याशङ्क्य तथाऽपि मन्मते तद्व्यर्थमित्याह । न चेति । असिद्धेरिति । अन्यथाऽसत्त्वापत्तेरिति भावः । एतेनेति । पटान्तरात्यन्ताभावस्यास्माकमसिद्धत्वेनेत्यर्थः । ननु यदि पटान्तरस्यात्यन्ताभाव एतत्तन्तुषु न स्यात्तर्ह्यत्र पटः स्यात् । न चेष्टापत्तिः । एतस्मिन्पटे सति पटान्तरस्यात्र वृत्तेरयोगात् । मूर्तानां समानदेशता- विरोधादिति शङ्कते । नन्विति । एतत्तन्तुष्विति शेषः । प्रश्नाशयं विवृण्वन्नुत्तरयति ॥ किमिति । अत्रैतत्तन्तुष्वित्यर्थः ।। न व्याप्तिसिद्धिरिति । मन्मतेऽश्वे गोत्वात्यन्ताभावाभावेऽपि गोत्वसंसर्गस्याभावान्मतान्तरेऽपि पटाभावे आत्माश्रयापत्त्या पटाभावाभावेऽपि पटसंसर्गस्याभावेन यत्र यदत्य- न्ताभावो नास्ति तत्र तत्संसर्ग इति व्याप्तेरसिद्धेरित्यर्थः ।। सिद्धसाधनमिति । पटान्तरस्यापि संयोगवृत्त्यैतत्तन्तुष्ववस्थानसम्भवेनेष्टापत्तेरित्यर्थः । उपादानो- पादेययोरभेदेन मूर्तानां समानदेशताविरोध इत्यस्याप्यभावात् । यद्यपीदं दूषणं प्राचीनपक्षेऽपि समानं तथाऽपि वस्तुस्थितिकथनाय व्याप्त्यभाव एवोक्त: । यद्वाssधे संसर्गशब्दः समवायपरः । ननु पटस्यात्यन्ताभावाभावे इह तन्तुष्वयं पटो नास्ति भूतले नास्तीत्यादिप्रत्यया निरालम्बना भवेयुरिति चेन्मैवं वोचः । इह पटो नास्तीति प्रतीतेः पटसम्बन्धाभावविषयत्वात् । इह भूतले घटो नास्तीत्यत्र भूतलघट- संयोगो निषिध्यत इति कुसुमाञ्जलावुदयनोक्तेः । भूतले घटोऽस्तीति बुद्धेस्तत्सम्बन्धविषयत्वेन नास्तीति बुद्धेरपि तदभावविषयत्वाच्च । किञ्च न तावदयं घटस्य प्रागभावो ध्वंसो वा । घटसमानकालीनत्वात् । नाप्यत्यन्ताभावः । कदाचिद्घटस्य तत्रानयनात् । सम्बन्धस्य तु भूतत्वे ध्वंसो भावित्वे प्रागभावः । कदाऽप्यभावे तदधिकरणकैतत्पटनिरूपितसम्बन्ध- स्यासत्त्वेन तदत्यन्ताभावसम्भव इत्येतत्तन्तुषु पटान्तरस्यात्यन्ताभावाभावे न कोऽपि दोष इत्यलमियता । संसर्गनिषेधो वा क्रियत इति प्रागुक्तं साध्ये विकल्पं दूषयति । नाप्युत्तर इति । पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी- त्यस्यैतत्तन्तुजन्यो नेत्येव विवक्षितमिति शङ्कते ॥ अथेति । अंशित्वमपीति । तन्त्वन्तराजन्यत्वेन निश्चितस्यैतत्तन्त्वजन्यत्वे साध्ये सर्वथाऽजन्यत्वापत्त्या परमाणुवदवयवित्वरूपमंशित्वमपि न स्यादित्यर्थः । ननु तात्त्विकांशित्वा- भावेऽप्यतात्त्विकमंशित्वं सम्भवतीति भावेन शङ्कते । न तत्त्वत इति । एवमप्यन्यतरासिद्धो हेतुरिति भावेनाह । अतात्त्विकेति । एवमवयवित्वानु- मानस्य तर्कपराहतिमुक्त्वा बाधकं चाह । इहेति । इदं च न्यायमतरीत्या बोध्यम् । स्वमत एवंविधप्रत्यक्षाभावादिति ध्येयम् । केचित्तु सर्वतन्तुभिः पटस्यात्यन्ताभेदेऽप्येकैकतन्तुभिर्भेदाभेदादेवं प्रत्यक्षमुक्तमित्याहुः ।

Loading…