Join Tattvasudhā to study.

अंशित्वानुमानस्य बाधः

§18Mūla

अस्य पटस्यावयवित्वादिनैतत्तन्तुनिष्ठात्यन्ताभाव प्रतियो- गित्वसाधनमप्यत्यन्ताभावस्य निष्प्रतियोगिकत्वेन बाधितम् । एतत्तन्तुषु नास्तीति साधने सिद्धसाधनम् । कार्यकारणयोरभेदेनाधाराधेयभावाभावात् । एतत्तन्तुकार्यं न भवतीति साधनेऽकार्यत्वस्यान्यकार्यत्वस्य वा सिद्ध्याऽ- र्थान्तरत्वम् । आकाशादिषु चैवं प्रयोगाभावेन सर्वजगन्मिथ्यात्वासिद्धिश्च ॥ छ । अंशित्वानुमानस्य बाधः ॥ छ ॥

ननु माऽस्तु दृश्यत्वादिकं मिथ्यात्वे मानम् । तथाऽप्ययं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी अंशित्वात्पटत्वाद्वा पटान्तरवदिति तत्त्व- प्रदीपोक्तानुमानात्तत्सिद्धेः । अत्र च हेतोः पक्षधर्मताबलन्मिथ्यात्वसिद्धिरित्याशङ्क्याह । अस्येति । बुद्धिस्थः कश्चन पटो द्रष्टव्यः । एतत्तन्त्विति पक्षीकृतपटजनकतन्तवो गृह्यन्ते। न केवलं दृश्यत्वादिना मिथ्यात्वसाधनमपि त्विदमपि बाधितमि- त्यपेरर्थः । अभावप्रतियोगीत्येवोक्ते प्रागभावादिप्रतियोगित्वमादाय सिद्ध- साधनमतोऽत्यन्तेति 1 तावत्युक्ते पटान्तरजनकतन्तुनिष्ठात्यन्ताभाव- प्रतियोगित्वमादाय तद्दोषतादवस्थ्यम् । अत एव तन्त्विति विशेषणम् । अवयवित्वादंशित्वादित्यर्थः । अत्यन्ताभावप्रतियोगित्वं किं पटस्य साध्यते उत तन्तुपटयोराधाराधेयभावलक्षणसम्बन्धस्याथवा पटान्तरस्येवास्यापि पटस्यैतत्तन्त्वारब्धत्वाभावो वाऽभिमत इति त्रेधा विकल्प्य क्रमेण दूषयति ।। अत्यन्तेति । निष्प्रतियोगिकत्वेनेति । असत्प्रतियोगिकत्वेनेत्यर्थः । तथा च पटस्यात्यन्ताभावप्रतियोगित्वे साध्ये तस्य नृशृङ्गादिवदत्यन्तासत्त्वापत्त्या तत्सत्वग्राहिप्रत्यक्षबाधः इत्यर्थः 1 प्रत्यक्षप्राबल्यं चोपजीव्यत्वादिना प्राग्वद्बोध्यम् । तस्यानुमानबाधितत्वप्रत्याशा तु निरस्ता निरसिष्यते चेति भावः । द्वितीये दोषमाह ॥ एतदिति । सिद्धसाधनत्वमेवोपपादयति ।। कार्येति । उपादेयोपादानयोरित्यर्थः । तयोराधाराधेयभावस्याप्रामाणिकत्वेन तस्यात्यन्ताभावप्रतियोगित्वसम्भवादिति भावः । तृतीये दोषमाह । एतत्तन्त्विति । नन्वन्याकार्यत्वेन कार्यत्वेन च प्रत्यक्षसिद्धस्यान्यकार्य- त्वादिकमादाय नार्थान्तरता । बाधापत्तेरिति चेत्तर्हि तत एवैतत्तन्त्वजन्य- स्याप्ययोगादिति भावः । सर्वत्र दोषान्तरं चाह ।। आकाशेति । आकाशादि- ष्वकारणकेषु स्वकारणनिष्ठात्यन्ताभावप्रतियोगित्वरूपसाध्यासम्भवादित्यर्थः ।

Loading…